बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 534, कुल 774 में से
संदर्भ में पढ़ेंअग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति ' छन्दोभिरेवैनँ स्वाद्योनेः प्रजनयतीति ब्राह्मणम् ' ॥ २८ ॥ अथ यद्याहवनीयगार्हपत्यावुद्वायेयातां गार्हपत्यं मथित्वा- ५ ग्नीध्रीयादाहवनीयमुद्धरेद्यद्याग्नीध्रीयगार्हपत्यावुद्वायेयातां गार्ह- पत्यं मथित्वाग्नीध्रीयमुद्धरेदथ यद्याग्नीध्रीयाहवनीयावुद्वायेयातां गार्हपत्यादाग्नीध्रीयमुद्धृत्य तत आहवनीयमुद्धरेद्यदि सर्वं¹ एवोद्वायेयुर्गार्हपत्यं मथित्वाग्नीध्रीयमुद्धृत्य तत आहवनीय- मुद्धरेदित्येवं वै भवति गार्हपत्यं मन्थति ' गार्हपत्यो वा अग्ने- १० र्योनिः ' स्वादेवैनं योनेर्जनयति ' नास्मै भ्रातृव्यं जनयतीति ब्राह्मणमथ वै भवति यस्य सोम उपदस्येत्सुवर्णँ हिरण्यं त्रेधा विच्छिद्यैर्षे ऽन्यदाधूनुयाज्जुहुयादन्यदिति ' स यस्य सोम उपदस्यति तत्सुवर्णँ हिरण्यं त्रेधा विच्छिद्यैर्षे ऽन्यदाधुनोति मुख्ये चमसे ऽन्यदवधाय जुहोति ' सोममेवाभिषुणोति सोमं १५ जुहोतीति ब्राह्मणमथ वै भवति सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत्तत्सुवर्णँ हिरण्यमभवद्यत्सुवर्णँ हिरण्यं कुर्वन्ति प्रिययैवैनं तनुवा समर्धयन्तीति ब्राह्मणमथ वै भवति यस्याक्रीतँ सोममपहुरेयुः क्रीणीयादेव ' सैव ततः प्राय- श्चित्तिरति ब्राह्मणमथ वै भवति यस्य क्रीतमपहुरेयुरादा- २० राँश्च फाल्गुनानि चाभिषुणयादित्योदाराः क्षुद्रतृणानि² ' १ सर्वत M. २ Thus M ; क्षुद्रकल० the other MSS. 26