बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 559, कुल 774 में से
संदर्भ में पढ़ेंकर्मान्तर्यामा'दन्तर्याम꣱ होष्यन्निन्द्राणसमधिद्रुत्य चतस्रः स्रुवा- हुतीर्जुहोत्युदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहेत्यथैतदुदित आदित्य उपरमन्ति रात्रिकर्मिणो ' व्यवच्छिन्दन्ति परिश्रयणानि ' निवर्तयन्तीन्द्राणसानि ' प्रसिद्ध꣱ सुवर्णरजताभ्यां गृह्यन्ते ' समानं कर्माग्रयणाद्ग्रहादाग्रयणं ५ गृहीत्वा सुवर्णरजताभ्यां द्वौ महिमानौ ग्रहौ गृह्णाति यः प्राणतो य आत्मदा इत्यथोक्थ्यं गृह्णाति ' समानं कर्मा- श्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वा चतुर्वि꣱शति꣱ रशना आदाय यूपानभ्यायन्ति चतस्रश्चतस्र इतरे परिकर्मिणः ' खर्वन्त꣱ राज्जुदालमग्निष्ठमुत्सृज्य तस्माद्दक्षिणमेव पूर्वं पौतुद्रवमुपशया- १० वानमुच्छ्रयति ॥ २२ ॥ अथोत्तरं ' त्रीन्दक्षिणतो बैल्वा꣱स्त्रीनुत्तरतस्त्रीन्दक्षिणतः खादिरा꣱स्त्रीनुत्तरतस्त्रीन्दक्षिणतः पालाशा꣱स्त्रीनुत्तरतो ' ऽथैतं पालाशमुपशयं दक्षिणतो न्यस्यति तूष्णीम् ' खर्वन्ता- न्यूपाननुमृज्याथाध्वर्युराग्निष्ठ उपाकरोत्यश्वं तूपरं गोमृगम- १५ त्येता꣱स्त्रीन्प्राजापत्यानथ पर्यङ्ग्यानुपाकरोत्याग्नेन्द्रं १ कृष्णलला- ममैन्द्रापौष्णं पौष्णमाग्नेयौ कृष्णग्रीवौ त्वाष्ट्रौ लोमशसक्थौ शितिपृष्ठौ बार्हस्पत्यौ धात्रे पृषोदर꣱ सौर्यं वलचं पेलमित्य'- थाध्वर्युराग्निष्ठ एवोपाकरोत्यग्नये ऽनीकवते रोहिताञ्जिरनड्वा-
१ ॰त्याग्नेन्द्रं M (sec. m.) ; ॰त्याग्नेयं M (pr. m.) and all the other MSS., but cp. infra xv. 26 med. (229, 16).