बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 579, कुल 774 में से
संदर्भ में पढ़ेंसदस्यमुन्नेताग्नीध्रं पवयति ग्रावस्तुत्ऽ सुब्रह्मण्यं प्रतिहर्तार- मात्मानमन्ततस्ते चेद्ब्रूयुरध्वर्योर्वाव¹ सर्वस्य पवयिता स नः सर्वा- न्पवयत्विति स एवैनान्सर्वान्पवयत्यपि वान्यॊऽन्यं पवयन्ति¹ यद्यधीयन्तो भवन्ति ॑ ॥ १ ॥ तेषां प्रसिद्धा दीक्षणीयेष्टिस्तायते ॑ सकृदाश्राविते² स ५ यत्राह भरतवदिति तद्गृहपतेरेवार्षेयं प्रथमं वृणीते³ ऽथ होतुरथात्मनो ऽथ ब्रह्मणो ऽथोद्गातुरथ प्रतिप्रस्थातुरथ प्रस्तोतुरथ प्रशास्तुरथ ब्राह्मणाच्छꣳसिनो ऽच्छावाकस्य सद्स्य- स्याग्नीध्रः पोतुर्नेष्टुर्ग्रावस्तुत उन्नेतुः सुब्रह्मण्यस्य प्रतिहर्तु- रन्ततो ॑ ब्रह्मण्वदिति समानं ॑ ते⁴ सर्व⁴ एव⁴ दीक्षाहुतिषु १० समन्वारभन्ते ॑ गृहपतिमेवाध्वर्युऋचैः कृष्णाजिने वाचयति ॑ तदेवेतरे⁵ ऽनुनिष्क्रामन्त्यपि⁶ वान्यॊऽन्यं वाचयन्ति यद्यधी- यन्तो भवन्ति ॑ ते यथोक्ताहं व्रतदुघमुपयन्त्येकैकां⁷ वा बह्वीर्वा ॑ तेषां यथैव प्रवरानुपूर्थ्यमेवं⁸ घर्मोच्छिष्टे⁹ ऽति-
१ Thus MTD Be 11 U (pr. m.) : वा (i. s. o. वाव) B Be U (sec m.). २ Thus M ; sing. the other MSS. ३ प्रवृणीते M. ४ Thus M ; ते सर्वे (without एव) T Be 11 U D ; समानमंततः सर्व एव B Be. ५ Thus MUD ; तदैवेतरो the other MSS. ६ Thus M ; नुनिष्क्राम० all the other MSS. ७ Thus (व्रतदुघमु०) Be 11 DUT ; ०दुहमुप० B ; ०दुह उप० M. ८ एवं om. M. ९ Thus M B Be ; ०च्छिष्टा० T Be 11 DU