बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 588, कुल 774 में से
संदर्भ में पढ़ें[ १६ । ८, ६ । ] बौधायनश्रौतसूत्रम् २५५ द्वादशाहः
यद्यु वै होता नाध्येत्यान्य१ उ॑ २॒ होत्राशꣳसी शꣳसति॑ । तस्मा उ प्रतिप्रस्थाता प्रतिगृणाति॑ । यदैतेषां पारं यन्त्यथाध्वर्यु- र्मनसैव प्राङ् द्रुत्वा मनसैव तं ग्रहमुपोद्यच्छते॑ । मनसाश्राव- यति॑ । मनसा प्रत्याश्रावयति॑ । मनसा वषट्कृतानुवषट्कृते हुत्वा हरति भक्षं॑ । मनसा समुपहूय भक्षयन्ति॑ । मनसा निर्णिज्य पात्रं प्रयच्छति॑ । संतिष्ठत एष तूष्णीꣳस्तोमो॑ । ऽथर्त्विजो विसृच्छत्यधिवृक्षसूर्ये२ वाचं विसृज्यध्वारङ् नक्षत्रेभ्य३र इत्य॑धि- वृक्षसूर्ये४ इति वै नो ब्राह्मणं भवति॑ । ते ऽधिवृक्षसूर्ये एव वाचं विसृजन्ते॑ । तानत्रैवासीनान्परिश्रयन्ति॑ । पत्नीशाले पत्नीः परिश्रयन्त्य॑थानतिसर्पन्तावध्वर्यू धिष्ण्यान्बर्हिर्भ्यामौदुम्बरीꣳ सम्भन्वारभेते इह धृतिरिह विधृतिरिह रन्तिरिह रमनि- रिति५ । ते यथासमुदितं६ वाचं विसृजन्ते॑ ॥ ८ ॥ अथातः सर्पणस्यैव मीमाꣳसा॑ । दक्षिणस्य हविर्धानस्याधो-
१ Thus MT B 11 ; ॰न्यतु D ; ॰न्यो B Be. २ Most of the MSS. have the plural. ३ विसृष्ट्यं० all exc. M. ४ Thus emended hesitatingly ; विसृज्यध्वाञ्चन्नक्षत्रेष्—त्यधि० M; विसृज्य- ध्वासनंनक्षत्रेष् इत्यधि० T Be 11 D; विसृज्यध्वासनंचचेष्वित्यधि० U; विसृज्यध्व- मिति वासंनक्षत्रेण्विति वा व्यधि० B Be; Keś. : समाप्ते तूष्णीꣳस्तोमे ऽध्वर्युः ऋत्विजो विसृच्छति अधिवृक्षसूर्ये वाचं विसृज्यध्वमा (sic) नक्षत्रेण्विति । इतर ऋत्विजः प्रतिब्रूयुः अधिवृक्षसूर्ये वाचं विसृज्यामह (sic) इति वा । उदितेषु नक्षत्रेपु विसृज्यामह (sic) इति वा । ५ Thus M B Be and cp. Āp. XXI. 12. 7, रमतामिति T Be 11 DU. ६ ॰दितां M.