बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 593, कुल 774 में से
संदर्भ में पढ़ें२६० बौधायनश्रौतसूत्रम् [ १६ । १२, १३ ।
न्यनु संवत्सर आप्यते ' 'समाप्तो द्वादशाहः' समाप्तः संवत्सर- काम' एवं द्वादशाहेन संवत्सर आप्यते' ॥ १२ ॥ तृतीयः ॥ संवत्सराय दीक्षिष्यमाणाः समवस्यन्ति ' तद्द्बहु सैतत्पूर्वे संव- त्सर समवसायासते ऽन्योन्यस्यानुक्तं च मानुषं च विजिज्ञास- माना ' उतो᳡ ह्येकः शमरथस्य⁴ कर्ता भवति ' ते चतुरहे ५ पुरस्तान्माघ्यै पौर्णमास्यै दीक्षन्ते ' तेषामेकाष्टकायां क्रयः संप- द्यत ' इति नु यदि समामविज्ञाय⁵ दीक्षन्ते ' यद्यु वा एतस्या- मेवैकाष्टकायां समां⁶ विजिज्ञासन्त चतुरह एव पुरस्ता- त्फाल्गुन्यै वा चैत्र्यै वा पौर्णमास्यै दीक्षन्ते ' तेषामपरपक्ष- स्याष्टम्यां क्रयः संपद्यते ' तेनैकाष्टकां न छम्बत्कुर्वन्ति ' तेषां १० पूर्वपक्षे सुत्या संपद्यते ' पूर्वपक्षं मासा अभि संपद्यन्ते ' पूर्व- पक्षे प्रसवः पूर्वपक्षे वैषुवतं पूर्वपक्ष उत्थानम् ' समानं द्वादशा- हिकं कर्म ' तथैव षष्ठ्यामुपसद्युत्तरवेदिँ संनिवपन्ति यद्य- नग्निचित्यं भवत्यथ यदि साग्निचित्यं प्रथमायामेवोपसद्युत्तर- वेदिँ संनिवपन्ति ' ॥ १३ ॥ १५
१...१ Thus M; i. s. o. संवत्सरकाम एवं T Be 11 DU: संवत्सरकामेक्रम एवं; acc. to B Be the passage runs thus: एवं द्वादशाहेन संवत्सर आप्यते समाप्तो द्वादशाहः समाप्तः संवत्सरक्रतुः। २ Thus M Be; ॰स्यानुक्तं Be 11; ॰स्यायुक्तं BUD. ३ Thus M Be (sec. m.), cp. supra xvi. 1 (p. 245, 1); उद्गाता the other MSS. ४ The word occurs again xvii. 43 and Drāhy. v. 4. 11. ५ समांविज्ञाय M. ६ Thus M; समामविज्ञायासते Be; समामविज्ञासंते the other MSS.