भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 613, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 613

मुक्थ्यमुपयन्ति बृहत्सामानं ' तस्याष्टाविंशाः पवमाना भवन्ति ' सप्तदशायतन एकविंशमुक्थ्यमुपयन्ति वैरूपसामानं ' तस्य द्वाविंशाः१ पवमाना भवन्ति ' स्व एवायतन२ एकविंश- मुक्थ्यमुपयन्ति वैराजसामानं ' तस्य षट्त्रिंशाः पवमाना भवन्ति ' स्व एवायतने२ त्रिणवमुक्थ्यमुपयन्ति शाक्वरसामानं ' ५ तस्य चत्वारिंशाः पवमाना भवन्ति ' स्व एवायतने त्रय- स्त्रिंंशमुक्थ्यमुपयन्ति रैवतसामानं ' तस्य चतुश्चत्वारिंशाः पवमाना भवन्ति ' त्रयस्त्रिंशात्त्रयस्त्रिंशमुपयन्ति ' तस्या- ष्टाचत्वारिंशाः पवमाना भवन्त्येषावृत् ' पृष्ठ्यं षडहमुप- यन्ति ॥ ३४ ॥ १० त्रिवृतो ऽधि त्रिवृतमुपयन्ति ' स्तोमानां संपत्त्यै प्रभवाय ' ज्योतिष्टोममुपयन्त्येषातिरात्रो ' ऽथ त्रिंशद्रात्रो ' ज्योति- रतिरात्रः ' पृष्ठ्यः षडहस्त्रयस्त्रिंशात्त्रयस्त्रिंशमुपयन्ति ' त्रिणवमुपयन्त्येकविंशमुपयन्ति ' त्रिवृतमग्निष्टुतमुपयन्ति ' पञ्चदशमिन्द्रस्तोममुपयन्ति ' सप्तदशमुपयन्त्येकविंशमुपयन्ति ' १५ चतुर्विंशमुपयन्ति ' चतुर्विंशात्पृष्ठ्यान्युपयन्ति ' त्रयस्त्रिंशा- त्त्रयस्त्रिंशमुपयन्ति ' त्रिणवमुपयन्ति ' द्वावेकविंशावुपयन्ति ' चतुरश्चतुष्टोमान्स्तोमानुपयन्त्येषातिरात्रो ' ऽथ द्वात्रिंश- द्रात्रो ' ऽतिरात्रो ' ज्योतिर्गौरायुरीति नव त्र्यहाः ' प्रत्यङ्- अह्नो ' ऽथातिरात्रो ' ऽथ त्रयस्त्रिंशद्रात्रो ' ऽतिरात्रस्त्रयः २०


१ Thus M Be 11 ; द्वात्रिंशाः the other MSS. २ एव om. M.