बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 621, कुल 774 में से
संदर्भ में पढ़ेंइत्यात्मानं प्रत्यभिमृशन्ते ' नाप्याययन्ति चमसान्स'र्वभक्षा मार्जयन्ते ' ऽथ प्राङायन्नाह ॥ ६ ॥ मैत्रावरुणस्य चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति ' मैत्रावरुणचमसमेव प्रथममुन्नयन्ति ' यथोपपादमितराꣳसुन्नी- योत्तरवेद्याꣳ सꣳसादयन्त्य'थाप उपस्पृश्य बर्हिषी आदाय ५ वाचंयमः प्रत्यङ् द्रुत्वा स्तोत्रमुपाकरोति ' स्तुवते ' मैत्रावरुणा- यैषोत्तमेति प्राङ्मैत्रावरुणस्य कालात्पराङावर्तते ऽध्वर्यु'रभ्ये- नमाह्वयते मैत्रावरुणः ' प्रत्याह्वयते ऽध्वर्युः ' प्रꣳसति ' प्रति- गृणाति ' प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं मैत्रा- वरुणचमसम'नूद्यच्छन्ते चमसाने'थाश्रावयत्यो श्रावयास्तु श्रौष्- १० डुक्थशा यज॒ सोमानामिति ' वषट्कृतानुवषट्कृते द्विर्जुहोति ' तथैव द्विर्द्विः सर्वाꣳश्चमसाञ्जुह्वत्य'थ भक्षैः प्रत्यञ्च आद्रवन्त्य'नु- सवनभक्ष इन्द्रेण पीतस्येति ' मैत्रावरुणचमसमेवैते त्रयः समुप- हूय भक्षयन्ति ' यथाचमसं चमसान्हिन्व म इत्यात्मानं प्रत्य- भिमृशन्ते ' नाप्याययन्ति चमसान्स'र्वभक्षा मार्जयन्ते ' ऽथाह १५ प्रतिप्रस्थातश्चमसगणौ ते प्रचरतेति ' तच्छ्रुत्वा प्रतिप्रस्थाता प्राङायन्नाह ॥ ७ ॥ ब्राह्मणाच्छꣳसिनश्चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति ' ब्राह्मणाच्छꣳसिचमसमेव प्रथममुन्नयन्ति ' यथोपपादमितरा- न्त्समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्य'थाप उपस्पृश्य बर्हिषी २० आदाय वाचंयमः प्रत्यङ् द्रुत्वा स्तोत्रमुपाकरोति ' स्तुवते ' ब्राह्मणाच्छꣳसिन एषोत्तमेति प्राङ्ब्राह्मणाच्छꣳसिनः काला-