भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 627, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 627

व्यतिषजेदितरानिति व्यतिषजति ऽ स एवमेव¹ दक्षिणमुत्तर- मित्यष्टौ यूपान्व्यतिषजति ऽ ॥ १२ ॥ अथ वै भवति यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्धं वर्षिष्ठमथ ह्रसीयाꣳसमित्युत्तरार्धमत्र वर्षिष्ठं मिनोति दक्षिणार्धꣳ ह्रसीयाꣳसमैषा वै गर्तमित्यस्यैवं ५ मिनोति ताजक्प्रमीयत इति ब्राह्मणं ऽ दक्षिणार्धं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाꣳसमिति दक्षिणार्धमत्र वर्षिष्ठं मिनोत्युत्तरार्धꣳ ह्रसीयाꣳसमौक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्या इति ब्राह्मणमथ वै भवति यदेकस्मिन्यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते ऽ १० यन्नैकाꣳ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दत इति ब्राह्मणमथ वै भवति यं कामयेत स्त्र्यस्य जायेते- त्युपान्ते तस्य व्यतिषजेदित्युपान्ते तस्य व्यतिषजति ऽ स्त्र्येवास्य जायत इति ब्राह्मणमथ वै भवति यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्टयेदित्यान्तं तस्य प्रवेष्टयति ऽ पुमानेवास्य १५ जायत इति ब्राह्मणमथैतमुपशयं दक्षिणतो न्यस्यति तूष्णीꣳ ऽ खर्वन्तान्यूपानुत्सृज्याग्नेयमेवाग्निष्ठ उपाकरोति ॥ १३ ॥ सारस्वतीमुत्तरे सौम्यं दक्षिणे पौष्णमुत्तरे बार्हस्पत्यं दक्षिणे वैश्वदेवमुत्तर ऐन्द्रं दक्षिणे मारुतमुत्तर ऐन्द्राग्नं दक्षिणे सावित्रमुत्तरे वारुणं दक्षिणे ऽ ऽथ वै भवति यदि २०


१ एव om. M : एवम् om Ms.

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक) · पृष्ठ 627, कुल 774 में से · BharatKosha