बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 64, कुल 774 में से
संदर्भ में पढ़ेंचतुरङ्गुलमुत्सेधां द्वादशाङ्गुलं विस्तीर्णाꣳ षोडशाङ्गुलमाय- तामपि वा प्रादेशमात्रीꣳ सर्वतः समां चतुरङ्गुलमेवोत्सेधां² ' तस्या उत्तानाया अनुलोममधस्तात्प्राचींनप्रवणं प्रजननं कुर्वन्ति ' तावतीमेवोत्तरारणिमथैनै३ आहरत्यश्वत्थाद्व्यवा- ५ हाद्वि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितवे ॥ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथै- तान्त्सुसंभृतान्संभारान्पुनरेव संभरति यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स संभृतः सीद शिवः प्रजाभ्य १० उरुं नो लोकमनुनेषि विद्वानिति ॥ ६ ॥ अथ वै भवतीन्द्रो वृत्रꣳ हत्वासुरानपराभाव्य सो ऽमावास्यां प्रत्यगच्छत्ते पितरः पूर्वेद्युरागच्छन्निर्वृत्यन्त्यज्ञो ऽगच्छत्तं देवाः पुनरयाचन्त ' तमेभ्यो न पुनरददुस्ते ऽब्रुवन्वरं वृणामहा अथ वः पुनर्दास्यामो ऽस्मभ्यमेव पूर्वेद्युः क्रियता इति ' तमेभ्यः १५ पुनरददुस्तंस्मात्पितृभ्यः पूर्वेद्युः क्रियते ' यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुत इति ब्राह्मणमथ यदि गां न लभते मेषमजं वा लभते ' ऽपि वा घृतमोदनं पक्त्वा तस्योपरिष्टात्सद्भूतमाज्यं पयो वानीय तस्मा- देतत्सर्वं करोति यद्गवा कार्यं ' विज्ञायते च धेन्वै वा एतद्रेतो
१ MSS. द्वादशाङ्गुलविस्ती• but cp. Rudradatta on Āpast. śrs. V. 1. 2. २ एव om. BT. ३ ०रणीम० FJT.