भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 667, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 667

नेद्धा पाप्मानं भ्रातृव्यं व्यवघ्नान एति । स एष वसिष्ठयज्ञः केशिद्यज्ञः सार्वसेनियज्ञो । वसिष्ठो ह यत्र सौदासानभिच- चारैवैर् हैनानभिचचार । केशी ह यत्र खाण्डिकमभिचचा- रैवैर् हैनमभिचचार । सार्वसेनिर्ह यत्र भ्रातृव्यानभिचचारैवैर् हैनानभिचचार । ॥ ५४ ॥ पञ्चदशः ॥ चातुर्मास्यैः सोमैर्यक्ष्यमाणो भवति । स द्वयान्संभारानुप- कल्पयत आग्निष्टोमिकाꣳश्च वैश्वदेवसंभाराꣳश्च¹ । स² पुरस्ता- त्फाल्गुन्यै वा चैत्र्यै वा पौर्णमास्या आमावास्येन हविषेष्ट्वा दीक्षते । तस्यापरिमिता³ दीक्षास्तिस्र उपसदः । स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञिये⁴ ऽहन्सुत्या संपत्स्यत इति । तस्य तथा संपद्यते । प्रसिद्धेन कर्मणोपवसथा- देत्यथैतदहर्विश्वेभ्यो देवेभ्यो वत्सा अपाकृता भवन्ति । वैश्वदेवं पयो दोहयति सांनाव्यस्य वावृता तूष्णीं वोथ वसतीवरीः परिहृत्य पयाꣳसि विशिष्योपवसन्त्यथ प्रातस्त्रि- वृद्बर्हिꣳस्तदेकवदेव⁵ स्तृणात्यथाग्नेयं पशुमुपाकरोति । तस्य वैश्वदेव उपालम्भ्यो भवति । तस्य प्रातःसवनीयाननुवर्तन्ते वैश्वदेवहवीꣳषि । प्रैषवन्तः सवनीया । अनुब्रूहि यजेतीतरे-


१ Thus MD Be 7; वैश्वदेविकसंभा० Be BU. २ Thus M; स om. B Be; पुरस्तात् om. B Be 7 DU. ३ Thus M Be 7; तस्या ऽपरि० Be BUD. ४ Thus MDU; यज्ञीये the other MSS. ५ भवति Be BU ins. after बर्हिष् ।

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक) · पृष्ठ 667, कुल 774 में से · BharatKosha