बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 688, कुल 774 में से
संदर्भ में पढ़ेंपर्यवेते मरुद्भ्यो गृहमेधिभ्यः सप्तदश कल्माषीर्वत्सतरीरा- लभते । ऽभिप्रोक्षणतो वत्सतरान्ह्नापयित्वोत्सृजन्त्येतराभिरेव संख्यां कुर्वन्ति । तृतीये संवत्सरे पर्यवेते मरुद्भ्यः क्रीडिभ्यः सप्तदशावलिप्ता वत्सतरीरालभते । ऽभिप्रोक्षणतो वत्सतरा- न्ह्नापयित्वोत्सृजन्त्येतराभिरेव संख्यां कुर्वन्ति । चतुर्थे संवत्सरे पर्यवेते मरुद्भ्यः स्वतवद्भ्यः सप्तदश राजीवा१ वत्स- तरीरालभते१ । ऽभिप्रोक्षणतो वत्सतरान्ह्नापयित्वोत्सृजन्त्ये- तराभिरेव संख्यां कुर्वन्त्येतदेवाहर्दीक्षते । संवत्सरमुख्यं२ बिभर्ति । द्वादशोपसदस्संस्थानानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदश उक्थ्यः सप्तदशो ऽतिरात्र- स्तस्य मारुत स्तोमो भवत्यथैतेषां पशूनां चयः प्रथमे ऽहन्नैन्द्रा- मारुता उक्षाणः सवनीया आलभ्यन्त एवं द्वितीय एवं तृतीय एवं चतुर्थे । पञ्चोत्तमे ऽहन्नालभ्यन्ते । वर्षिष्ठमिव ह्येतदह- र्मन्यन्ते वर्षिष्ठः समानानां भवतीति ब्राह्मणमथैतेषां पशूनां यदि नश्यति म्रियते वा याश्वमेधे प्रायश्चित्तिस्तां कृत्वाथान्यं तद्देवत्यं३ तद्वर्णं तद्वयसं तद्रूपं४ तज्जातीयं४ पशुमालभन्ते । स एष पञ्चशारदीयो राज्ञो वा ब्राह्मणस्य वा । यः कामयेत
१ Thus Be 7; राजीषां D; राजीवे U; राजीर्वत्स• Be; राजीबत्स• B; उक्थ्यो राजीर्वत्स• M. २ ०मुखाम् M. ३ तद्दे वत्यं MSS. ४ om. M.