बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 709, कुल 774 में से
संदर्भ में पढ़ेंउपह्वयः ३७६ बौधायनश्रौतसूत्रम् । [ १८ । २८ । ] अथ वै भवति देवा वै यद्यज्ञे ऽकुर्वत तदसुरा अकुर्व- तेति॑ स ईक्षां चक्रे प्रजापतिः कथं॑१ न्वहमसुरैर्देवान्व्यावर्तये- यमिति॑ स एतं यज्ञक्रतुमनिरुक्तमुपहव्यमपश्यत्त॑स्मिन्नेनानुपा- ह्वयतेति॑ स यत्राह प्रातर्यावभ्यो देवेभ्य इति मरुद्भ्यः ५ प्रातर्यावभ्यो देवेभ्य इति तन्नाह्वय यत्राह सोमः पवत इतौन्दुः पवत इति तन्नाह्वय यत्राह्वेन्द्राय पुरोडाशानामिति शक्राय पुरोडाशानामिति तन्नाह्वय यत्राह वायव इन्द्रा- वायुभ्यामिति नियुत्वते शक्रनियुद्भ्यामिति तन्नाह्वय यत्राह मित्रावरुणाभ्यामित्युतायुभ्यामिति तन्नाह्वय यत्राहाश्विभ्या- १० मिति नासत्याभ्यामिति तन्नाह्वय यत्राह्वेन्द्राय सोमानिति शक्रायेन्दूनिति तन्नाह्वय यत्राह्वेन्द्राग्निभ्यामिति शक्रजात- वेदोभ्यामिति तन्नाह्वय यत्राह विश्वेभ्यो देवेभ्य इति मरुद्भ्यो विश्वेभ्यो देवेभ्य इति तन्नाह्वय यत्राह्वेन्द्राय मरुत्वत इति शक्राय गणवत इति तन्नाह्वय यत्राह महेन्द्रायेति महते १५ शक्रायेति तन्नाह्वय यत्राहादित्येभ्य इति महद्भ्य आदित्येभ्य इति तन्नाह्वय यत्राह वनस्पतय इति वनर्नृपाय्येति२ तन्नाह्वय यत्राह देवाय सवित्र इति महते३ देवाय सवित्र इति तन्नाह्वय यत्राह विश्वेभ्यो देवेभ्य इति महद्भ्यो विश्वेभ्यो देवेभ्य १ कथमन्वहमसु० M ; कथमन्वहमसु० Be 7 D ; कथयन्वहमसु० Be BU. २ Conjecturally ; वनेर्पापायेति M ; वनेनद्यपयेति Be 7 D ; वनेनव्यषयेति BU ; वनेनर्षापायेति Be. ३ Thus M ; समहते Be 7 Be D , ममकृते BU.