बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 71, कुल 774 में से
संदर्भ में पढ़ें५० बोधायनश्रौतसूत्रम् । [२।१०।] तूष्णीं दर्भैरभिधाय पिण्डानामावृत्तैतान्यवदानानि ददाति हृदयमेवाग्रे ऽथ सव्यं मतस्नुमथ दक्षिणमेतत्ते ततासौ ये च त्वामनु याँश्च त्वमन्वस्येषा¹ ते तत स्वधाचितिर्यावती पृथिवी तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि पृथिव्या मितमसि तताय मा चेष्ठा इति ' द्वितीयं ५ ददात्येतत्ते पितामहासौ ये च त्वामनु याँश्च त्वमन्वस्येषा ते पितामह स्वधाचितिर्यावदन्तरिक्षं तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददाम्यन्तरिक्षेण मितमसि पितामहाय मा चेष्ठा इति ' तृतीयं ददात्येतत्ते प्रपिता- महासौ ये च त्वामनु याँश्च त्वमन्वस्येषा ते प्रपितामह १० स्वधाचितिर्यावती द्यौस्तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि दिवा मितमसि प्रपितामहाय मा चेष्ठा इत्यथ पितरो यथाभागं मन्दध्वमित्युक्ताथैकेनोदकुम्भेन मार्जयति तूष्णीमथैभ्यो गामुपपरेत्य लोहितमुपप्रवर्तयति यानि रक्षांस्यसृग्भागानि ये चापि पितरो हरन्तां १५ विहरन्तां तृप्यन्तु रुधिरस्य ते ॥ ये नः पतिता गर्भा असृग्भाज उपासते । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु च ॥ य आमा ये च² पक्वा ये च दुग्धाः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु च ॥ ये कुमारा या स्त्रियो
१ Here and in the corresponding passages further on the MSS. have ॰न्वस्येया instead of ॰न्वस्येषा । २ om. BT and two MSS. of the gṛhya-sūtra.