बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 718, कुल 774 में से
संदर्भ में पढ़ेंसमानलोकौ स्याव समानं लोकमियावेति तावेतेन यज्ञक्रतुना यजेयाताम्¹ समानलोकावेव भवतः समानं लोकमितो ' ऽश्वरथो यज्ञायुधः प्रासङ्ग्यसमसः सा ब्राह्मणस्य दक्षिणाऽश्व- तरोरथः सर्वायुधो ऽप्रासङ्ग्यः कार्ष्णीरस्तूष्णीबन्धः² सा राजन्यस्य ५ दक्षिणा ' तस्य त्रिवृत्पञ्चदशौ विपर्यासं स्तोमौ भवतस्त्रिवृ- द्देव ब्राह्मणस्य पञ्चदशो राजन्यस्य ' तमेतमिन्द्राग्नियोः कुलाय इत्याचक्षत ' एष एव सन्नितापुत्रीय एष सख्योर्यज्ञ एष भ्रात्रोः " ॥ ३५ ॥ नवमः ॥ अभिचरणीयैः सोमैर्यक्ष्यमाणो भवति ' स द्वयानि १० यज्ञायुधान्युपकल्पयते बाधकानि च तैल्वकानि च श्वानसो³ ऽधिषवणे फलके पुरुषास्थस्य⁴ वृषणौ ' स यत्राध्वर्युरूपाꣳशुं ग्रहीष्यन्वाजानमभिषुणोति तस्य यो ऽꣳशुः परापतति तमे- तस्मिन्पात्र आधायाेपसंगृह्याहामुं जह्यथ त्वा होष्यामीत्या- तमितोरास्ते ' ऽथैतं भङ्गमाहवनीये ऽनुप्रहरतीदमहममुमा- १५ मुष्यायणं परिसुम्ना⁵ भङ्गेन⁶ विव्यामीत्येव यं यजमानो द्वेष्टि
पादटिप्पण्यः (Footnotes)
१ यजेतां all exc. M. २ •तूणीबंधः Be; •तूषिबंधः U; तूष्णीबंधः M; •तूषिबंन्धः B; चौषिबंधः Be 7 D. ३ Thus M Be; श्वानभ्ये Be 7 D (cp. Ap. XXII. 4. 17, Śāṅkh. XIV. 22. 18, Ṣaḍv. br. III. 8); श्वाननभ्ये U; श्वाननभोग्यो B; cp. the Dvaidhasūtra. ४ Thus M; all the other MSS. corrupt. ५ Thus M; परिसुम्नासंगेन Be U B; परिपानाभंग्येन Be 7 D.