बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 727, कुल 774 में से
संदर्भ में पढ़ें३६४ [बौधायनश्रौतसूत्रम्] [१८ । ४२ ।] यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत॑ । ततो वै स प्रजामसृजत प्रजामवारुन्द्ध प्रजांमविन्दतैनं प्रजयाचचत॑¹ । यः कामयेत प्रजाꣳ सृजेय प्रजामवरुन्धीय प्रजां विन्देया² मा प्रजया चचौरन्निति स एतेन यज्ञक्रतुना यजेत॑ । प्रजामेव सृजते प्रजामवरुन्द्धे प्रजां विन्दत³ ऐनं प्रजया चचते॑ । तस्य⁴ प्राचीन- ५ स्तोमास्त्रयस्त्रिवृतस्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविꣳशाः ॥ सो ऽकामयतान्नादो मे प्रजा स्यादन्नाद्यमवरुन्धीतान्नाद्यमस्यां प्रतितिष्ठेदिति॑ । स एतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत॑ । ततो वै तस्यान्नादी प्रजाभवदन्नाद्यमवारुन्द्धानाद्यमस्यां प्रत्यतिष्ठद्य॑ः कामयेतान्नादो मे प्रजा स्यादन्नाद्यमवरुन्धीतान्नाद्यमस्यां १० प्रतितिष्ठेदिति स एतेन यज्ञक्रतुना यजेतान्नाद्येवास्य प्रजा भवत्यन्नाद्यमवरुन्द्धे ऽन्नाद्यमस्यां प्रतितिष्ठति॑ । तस्य दश स्तोमा॑ । दशसुदशसु स्तुवते विराजो रूपं ॥ वागाम्भृण्यकामयतापरि- मितं यशो ऽश्नुवीयेति॑ । सैतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत॑ । ततो वै सापरिमितं यश आनशुत॑ । यः कामयेतापरिमितं यशो १५ ऽश्नुवीयेति स एतेन यज्ञक्रतुना यजेतापरिमितमेव यशो
१ • चक्षते all exc. Be L. २ विंदेय मा प्रजामाचचरंनिति Be D ; विंदेय प्रजयाचचरंत्विति B Be 7 U विन्देय मा प्रजामाचचौरन्निति L. ३ Thus corrected ; विंदत एवं Be L ; बिंदैतनं the other MSS. ४ Only in Be L.