बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 751, कुल 774 में से
संदर्भ में पढ़ें४१८ बौधायनश्रौतसूत्रम् । [ १६ । २, ३ । ]
समुद्र उपदधे सुप्रजावनिग्ँ रायस्पोषवनिं मह्यं यजमाना- येति॑ । तयादेवतं कृत्वा सूददोहसं करोत्य॑थ संभारान्निवप- त्यग्नेर्भस्मासीति भस्माग्नेः पुरीषमसीति पुरीषग्ँ संज्ञानमसि कामधरणमित्यूषान्मयि ते कामधरणं भूयादिति सिकता॑ । अथैनान्संप्रयौति सं या वः प्रियास्तनुवः सं प्रिया हृदयानि ५ वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्य॑थैनान्कल्प- यति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्ता- मग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रता इति॑ । ताग्ँस्तथा कल्प- यति यथा न लेखाः संलोपयन्ते१॑ । सद्यो वा सर्वं क्रियते सद्यस्काले॑ ॥ २ ॥ प्रथमः ॥ १० अथान्तमायां लेखायां पूर्वपक्षस्य दिनेष्टका उपदधाति संज्ञानं तया देवतयाङ्गिरस्वद्ध्रुवा सीद विज्ञानं तया देवत- याङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश॑ । तासामन्तरालेखेष्वेतेषामेव दिनानां मुहूर्तेष्टका उपदधाति चित्रस्तया देवतयाङ्गिरस्व- द्ध्रुवा सीद केतुस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश॑ । १५ सर्वासाम् पारे सूददोहसः करोत्य॑थाभ्यन्तरायां लेखायां पूर्व- पक्षस्य क्षपेष्टका उपदधाति दर्शा तया देवतयाङ्गिरस्वद्ध्रुवा सीद दृष्टा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश॑ । तासामन्तरालेखेष्वेतासामेव२ क्षपाणां मुहूर्तेष्टका उपदधाति दाता तया देवतयाङ्गिरस्वद्ध्रुवा सीद प्रदाता तया देवतयाङ्गि- २०
पादटिप्पणी (Footnotes): १ संयोपयंते Be Ben. २ Thus MU ; एतेषामेव the other MSS.