बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 755, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 755
४२२ Digitized by Madhuban Trust बौधायनश्रौतसूत्रम् । [ १८ । ४, ५ । ]
करिष्यन्भवत्यथैतस्यार्कपर्णस्य¹ पुटमन्तरवस्त्राविणं कृत्वोदङ्- तिष्ठन्मुखदघ्ने धारयन्नाहाहरानयेति ' स यत्र धारेष्टकां² प्राप्नोति तत्प्रतिपद्यते त्वमग्ने रुद्र इत्यान्तादनुवाकस्याथैतदर्क- पर्णं यं द्वेष्टि तस्य संचरे पशूनां न्यस्यति ' यद्यु वै न द्वेष्या- ऽन्वटे न्यस्यत्यैनमुपतिष्ठते त्वमेव तां वेत्थ यो ऽसि सो ५ ऽसीत्येतेनानुवाकेनाथ सङ्घारविचाराभ्यामुपतिष्ठते संवत्सरो ऽसि परिवत्सरो ऽसीत्येतेनानुवाकेनाथाह होतरग्नेरुक्थेनाग्नि- मनुशꣳसेति ' ³यदि होता न कामयते यजमान एव जघ- नेनाग्निं तृणानि संस्तीर्य तेषूपविश्याग्नेरुक्थेनाग्निमनुश