बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 757, कुल 774 में से
संदर्भ में पढ़ें४२४ बौधायनश्रौतसूत्रम् [ १९ । ५ ]
गृह्णन्ति¹ ग्रहमुपहूतं² ग्रहं यजमानो भक्षयति भक्षो ऽस्म्यमृत- भक्षस्तस्य ते मृत्युपीतस्यामृतवतः स्वगाकृतस्य मधुमत उप- हूतस्योपहूतो भक्षयामीति ' भक्षयित्वात्मानं प्रत्यभिमृशते मन्द्राभिभूतिः केतुर्यज्ञानामित्यान्तादनुवाकस्या'नूयाजप्रभृति पाशुबन्धिकं कर्म तायते ' सिद्धमा दक्षिणानां कालाद्दक्षि- ५ णानां काले धेनुमृषभमनड्वाहं दत्त्वैकविंशतिर्दक्षिणा³ ददाति ' शतं ददाति ' सहस्रं ददात्यन्विष्ठकं दक्षिणा ददाति ' यदि न विन्देत मन्यानेतावतो दद्यादोदनान्वा ' षष्ठौहीं त्वन्वर्वतीं दद्याद्धिरण्यं ददाति ' वासो ददाति ' तेनायुः प्रतिरत इति ब्राह्मणं ' तं चेत्सौम्ये ऽध्वरे चिन्वीत १० प्रथमायामुपसद्दि चेच्चकरणं ' मध्यमोत्तमे उपसदावन्तरेणोप- धानं ' काले ऽग्निप्रणयनं ' दक्षिणानां काले दक्षिणाः ' सव- नीयस्य यूष्णो मृत्युग्रहं तं चेदहीने सत्रे वा चिन्वीत प्रथमे ऽहनि दक्षिणाः प्रथमे ऽहनि यूष्णो मृत्युग्रहो ' न सत्रे दक्षिणा नीयन्ते ' नाचिकेत एव मृत्युग्रहः स्यादित्येतदपर- १५ 'मग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्यामिक्षया वेति ' तस्यै सायमाग्निहोत्रे हुते सायंदोहः प्रातराग्निहोत्रे हुते प्रातर्दोहः ' पशुपुरोडाशेन सह श्रपणंसमुदिते चर्या ' संतिष्ठते सावित्रः ' ॥ ५ ॥ तृतीयः ॥
१ उपप्रस्टहंति M. २ ग्रहमिडोपहूतं M. ३ ददाति instead of दत्त्वा M.