भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 762, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 762

पत्नीष्टके उपदधाति वसूनां गायत्री तया देवतयाङ्गिरस्वद्‍ध्रुवा सीद रुद्राणां त्रिष्टुप्कया¹ देवतयाङ्गिरस्वद्‍ध्रुवा सीदेति ' सर्वासां पारे सूददोहसः करोत्यथोपरिष्टात्प्राचीः सप्तहोतृ- ष्टका उपदधाति महाहविर्होता तया देवतयाङ्गिरस्वद्‍ध्रुवा सीद सत्यहविरध्वर्युस्तया देवतयाङ्गिरस्वद्‍ध्रुवा सीदेति षडपि ५ वानाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरावित्येतेन मन्त्रेण द्वे इष्टके समानतयादेवते उपदधाति ' तया देवतयाङ्गिरस्वद्‍ध्रुवे सीद- तमिति मन्त्रँ संनमयत्यथ² हृदयेष्टकामुपदधातीन्द्रो राजा जगतो य ईश इत्यान्तादनुवाकस्याथ यजुरिष्टका उपदधा- त्यदितिर्वेद्या तया देवतयाङ्गिरस्वद्‍ध्रुवा सीद सोमो दौष्या १० तया देवतयाङ्गिरस्वद्‍ध्रुवा सीदेति त्रयोदशाथ पत्नीष्टका उपदधात्यादित्यानां जगती तया देवतयाङ्गिरस्वद्‍ध्रुवा सीद विष्णोरनुष्टुप्कया³ देवतयाङ्गिरस्वद्‍ध्रुवा सीदेत्यष्टादश ' सर्वासां पारे सूददोहसः करोत्यथ यथावकाशं ग्रहेष्टका उपदधाति वाचस्पते विधे नामन्निति दशहोतुर्वाचस्पते वाचो वीर्ये- १५ णिति चतुर्होतुः सोमः सोमस्य पुरोगा इति पञ्चहोतुर्भू- र्भुवः सुवरिति षड्ढोतुर्वाचस्पते हृद्विधे नामन्निति सप्तहोतुः ' सर्वासां पारे सूददोहसः करोत्यथ यथावकाशमेव प्रतिग्रहे- ष्टका उपदधाति ' देवस्य त्वा सवितुः प्रसव इत्यनुद्रुत्यैषा ते


१ त्रिष्टुप्तया M. २ Thus MH ; संनमत्य॰ the other MSS. ३ ॰ष्टुप्तया