बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 88, कुल 774 में से
संदर्भ में पढ़ें[ २ । २०, २१ । ] बौधायनश्रौतसूत्रम् । ६७ न लवणमश्नाति॑ न कौग्गौधान्यमन्यत्र तिलेभ्यः॑ प्राङ्कञ्चारः स्वयग् समिध आहरमाणो ऽग्नीनामन्ते संविशत्यजस्रा अस्यैते द्वादशाहमग्नयो भवन्ति॑ नास्य ब्राह्मणो ऽनाश्वान्गृहे वस- त्यग्निहोत्रोच्छेषणव्रतो वा यजमानो भवति॑ भक्तमु १ पत्न्या २ आहरन्त्यथ २ द्वादशसु व्युष्टासु पृष्ट्याग् स्तीर्त्वापः प्रणीयाग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपति॑ श्रपयित्वासादयति॑ तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागावथ हविषो ऽग्न आयूग्षि पवसे ऽग्ने पवस्वेति॑ त्रिष्टुभौ संयाज्ये॑ अन्वाहार्यमासाद्य त्रिग्शन्मानग् हिरण्यं ददाति॑ संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुकमा॑ विसृजते व्रतमथ तदानीमेव पृष्ट्याग् स्तीर्त्वापः प्रणीयाग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपत्यग्नये शुचये॑ श्रपयित्वासादयति॑ तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागावथ हविषोरग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तविति॑ त्रिष्टुभौ संयाज्ये॑ अन्वाहार्यमासाद्य त्रिग्शन्मानञ्चत्वारिग्- न्माने हिरण्ये ददाति॑ संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुकमा॑ विसृजते व्रतम्॑ ॥ २० ॥ अथातो ऽन्वारम्भणस्यैव सौमाग्घौन्वारम्भं पौर्णमास्याः समानोपवसथं करोत्यर्थ प्रातर्हुते ऽग्निहोत्रे पुरापां प्रणय- नाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा १ Thus JF, cp. Rājasūya 20 ; भक्तमुपत्नग्राहरंति B; ॰पत्याहरति T ; भक्तमुपपत्नग्राशाहरं(र)ति Be H.