बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 93, कुल 774 में से
संदर्भ में पढ़ेंहताग्नेर्नष्टारणीकस्य च १ ब्रह्मोदनेनैव प्रतिपद्यते ' सिद्धमन्वा- धेयम् ' ॥ ३ ॥ प्रथमः ॥ पुरादित्यस्यास्तमयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमा- दृत्य ˚ ज्वलन्तमाहवनीयमुद्धरति सायमाहुतये ' पुरादित्य- ५ स्योदयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमादृत्य ˚ ज्वलन्तमाह- वनीयमुद्धरति प्रातराहुतये ' वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यै- रृत्विग्भिरुद्धरामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वांसञ्च विद्वांसञ्चकार । अह्ना यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायं ' रात्रिया २ यदेनः १० कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातरग्निं निदधात्यमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं ४ काममितो जयेम प्रजापतिर्यं प्रथमो जिगायाग्नि- मग्नौ वैश्वानरे ऽमृतं जुहोमि स्वाहेति सायं ' सूर्यमग्नौ वैश्वानरे ऽमृतं जुहोमि स्वाहेति प्रातः ' सायं प्रातरेवैषा १५ पत्न्यन्वास्ते ' सायँसायमित्येके ' ऽथैतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गार्हपत्यमुपसादयति कूर्चे वा सूनायां वा स्थालौँ सस्रुवां ' स्रुचमभियोतनँ समिधमित्यैतामग्निहोत्रीँ १ Thus Be T, cp. Rudradatta on Āpast. V. 29. 12. The other MSS. insert प्रणयनं before ब्रह्मोद० and BH om. च । २ उद्धृत्य F. ३ रात्र्या T. ४ Thus BH; तेन instead of तया the other MSS.