बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 95, कुल 774 में से
संदर्भ में पढ़ेंमा देवाः स्वस्ति संपारयन्तु पशुभिरिति सायम् ' सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपारयन्तु पशुभिरिति प्रातरथैताꣳ समिधꣳ स्रुग्दण्ड¹ उपसंगृह्य जघनेन गार्हपत्यमुपसादयति कूर्चे नम ईशानाय प्रजाः पशवो मे वर्धन्तामहं यजमानो मा रिषमिति ' दशहोत्रोद्द्रुत्य ५ प्राङ् हरति भूर्भुवः सुवरुर्वन्तरिक्षमन्विह्ययं पन्था विततो देवयानो येनायन्नृषयः स्वर्गकामास्तेन गच्छामि परमं व्योम यथा न हीये सुकृताꣳ सकाशादिति ' जघनेनाहवनीयमुप- सादयति कूर्चे नम² ईशानाय प्रजा मे वर्धतामहं यजमानो मा रिषमित्यथैताꣳ समिधं मध्यत आहवनीयस्याभ्यादधाति १० ॥ ५ ॥ रजतां त्वाग्निज्योतिषं वायुमतीꣳ स्वर्गीꣳ स्वर्गाय लोकाय रात्रिमचितिमिष्टकामुपदधे ऽमृतं प्राणे दधामि प्रजापतिस्त्वा सादयत्विति ' तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमꣳ १५ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इति सायमथ प्रातर्हरिणीं त्वा सूर्यज्योतिषं वायुमतीꣳ स्वर्गीꣳ स्वर्गाय लोकायाहरचितिमिष्टकामुपदधे ऽमृतमपाने दधामि प्रजापतिस्त्वा सादयत्विति ' तयादेवतं कृत्वा सूददोहसं करोति ' तस्यामादीप्तायां प्रतिमुखं³ जुहोत्यग्निर्ज्योतिर्ज्योतिः २०
१ Thus BT; स्रुवदंड the other MSS. २ The yajuṣ नम...मा रिषमिति is found only in BT. ३ Be JF ins. द्विर ।