बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 99, कुल 774 में से
संदर्भ में पढ़ेंभूयास्तेत्ये॑तान्यग्निहोत्रियै¹ वत्समभिमृशति सञ्चितासि विश्व- रूपोरा मोर्जा विश्रा गौपत्येना रायस्पोषेण । सहस्रपोषं वः पुष्यासं मयि वो रायः श्रयन्तामित्य॑थ द्विपद्-चिपदाभिर्गार्ह- पत्यमुपतिष्ठत² उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥ राजन्तमध्वराणां गोपामृतस्य दीदि- ५ विम् । वर्धमानꣳ स्वे दमे ॥ स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥ अग्ने त्वं नो अन्तम उत त्राता शिवो भव वरूथ्यः ॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमी- महे सखिभ्यः ॥ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दा इत्य॑थ गृहाꣳस्यैव³ पशूꣳस्यैवोपतिष्ठते ॥ ८ ॥ १० ऊर्जा वः पश्याम्यूर्जा मा पश्यत रायस्पोषेण वः पश्यामि रायस्पोषेण मा पश्यतेडा स्थ मधुकृतः स्योना माविशतेरा मदः । सहस्रपोषं वः पुष्यासं मयि वो रायः श्रयन्तामित्या॑हवनीय- मुपतिष्ठते⁴ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयादित्या॑हवनीयमेवोपतिष्ठते सोमानꣳ स्वरणं कृणु- १५ हि ब्रह्मणस्पते । कक्षीवन्तं य औशिजमित्य॑थ रात्रिमुपतिष्ठते कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इत्य॑थ गार्हपत्यमुपतिष्ठते परि
पादटिप्पण्यः (Footnotes):
१ Thus BHJ ; ०होत्रे T Be. २ द्विपदा० T. ३ एव om T. ४ पश्चादित्यम्० BH.