बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 101, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ७१ चतुरश्रपक्षे इष्टकाकरणप्रकारमाह--चतुरश्रमिति । चतुरश्रं दक्षिण- मारभ्य उदगपवर्गं सप्तधा विभज्य प्रत्यगारभ्य प्रागपवर्गं त्रेधा विभजेत् । एवञ्च प्रागायताः सप्तरीतय उदगायतास्तिस्रो रीतयः संपन्नाः । अपर- स्मिन्निति । उदीच्यः सप्तरीतयः प्राच्यस्तिस्रः समचतुरश्रा यथा भवन्ति तथोपद्ध्यादित्यर्थः ॥ ३१ ॥ चतुरस्रमिति । पूर्वापरेण सप्तधा विभागः । विभागद्वारेण करणान्युक्तानि भवन्ति । तत्र द्वात्रिंशदङ्गुल आयामः । दशतिलोनाचतुर्दशाङ्गुलन्यासम् एकमेव करणम् । अपरस्मिन्निति । उदीचीरुदगायताः । अस्मादेव व्यत्यासवचनाद् अत्रापि भेदवर्जनं पशुधर्मत्वञ्च आश्रयणीयमिति सूचितं भवति । समचतुरस्त्रेति । इष्टका इति शेषः ॥ ३१ ॥ व्यायामषष्ठेनेष्टकाः कारयेत् चतुर्थेन तृतीयेनेति ॥ ३२ ॥ अस्मिन्नेव चतुरश्रपक्षे उपधाने प्रकारान्तरमाह--व्यायामषष्ठेनेति । षोडशाङ्गुलप्रमाणे समचतुरश्रेष्टकाः कारयेत्, चतुर्थेन अरत्निप्रमाणे समचतुरश्रा इष्टकाः कारयेत्, तृतीयेन द्वात्रिंशदङ्गुलप्रमाणे समचतुर- श्रेष्टकाः कारयेत् ॥ ३२ ॥ व्यायामेनेति । अत्र षोडशाङ्गुलेन, अरत्निना, द्वात्रिंशदङ्गुलेन । इति- रेवमर्थे ॥ ३२ ॥ तासां नव प्रथमा, द्वादश द्वितीया, इति पूर्वस्मिन् प्रस्तार उपदधाति ॥ ३३ ॥ इष्टकाकरणमुक्त्वोपधानप्रकारमाह--तासामिति । तासां पूर्वोक्तेष्ट- कानां मध्ये नव प्रथमाः षोडशाङ्गुलप्रमाणा मध्ये संश्लिष्टा उपधाय द्वादश द्वितीया अरत्निप्रमाणाः सर्वत उपदध्यात् ॥ ३३ ॥ तासामिति । प्रथमाः प्रथमोक्ताः षोडशाङ्गुलाः । द्वितीया द्वितीयोक्ता अरत्नयः । इति शब्दः समुच्चयार्थः । अरत्नित्रयसमचतुरस्रे प्रथमा उपदध्यात् । परितो द्वाद- शारत्नयः । एवं पशुधर्मत्वं भवति ॥ ३३ ॥ पञ्च तृतीयाः षोडश प्रथमा इत्यपरस्मिन् ॥ ३४ ॥ पञ्चेति । अपरस्मिन् प्रस्तारे पञ्च तृतीया द्वात्रिंशदङ्गुलप्रमाणाश्च-