बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 103, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः १ ] बौधायनीयं ७३ षड्विंशकं तिलद्वयोनमपरं धनुरिव तक्षेत् । यथा अङ्गुलिः सप्तविंशतितिलाश्च शरो भवति । स्रक्तीति । प्रथमे प्रस्तारे चतुरस्रस्रक्तीरवान्तरदिक्षु सम्पा- दयेत् ॥ ३५ ॥ अपरं प्रस्तारं तथोपद्ध्याद् यथा प्रष्ठ्यनीकेषु स्रक्तयो भवन्ति ॥ ३६ ॥ अपरमिति । अपरस्मिन् प्रस्तारे प्रध्यनीकेषु प्रधिमध्येषु यथा चतुर- स्रस्य स्रक्तयो भवन्ति तथा चतुरश्रं कृत्वा तं नवधा विभजेत् । तथा च पूर्वस्रक्तिभाग इह प्रध्यः संपन्नाः, तांस्त्रिधा विभजेत् ॥ ३६ ॥ अपरमिति । प्रध्यनीकेषु प्रधिमध्येषु चतुरस्रस्रक्तयो भवन्ति । महादिक्षु इत्यर्थः ॥ ३६ ॥ [ इति परिमण्डलगार्हपत्यचित्युपधानम् । ] धिष्ण्या एकचितीकाश्चतुरश्राः परिमण्डला वा ॥ ३७ ॥ मण्डलपक्षे गार्हपत्योपधानप्रकारमुक्त्वा धिष्ण्योपधानप्रकारमाह— धिष्ण्या इति । एकचितीका एकप्रस्तारयुक्ताः । अत्र धिष्ण्यक्षेत्रपरिमा- णकथनादग्निष्टोमोक्तधिष्ण्यपरिमाणक्षेत्रमेव चतुरश्रं परिमण्डलं कर्त्तव्य- मिति गम्यते ॥ ३७ ॥ धिष्ण्येति । एकचितीका एकप्रस्ताराः । एकचितीकत्वं प्राप्तस्य पुनर्वचनप्रयोजनं पशुधर्मपरिग्रहार्थम् । ततश्च न खण्डा (२।२४) मित्यादिप्रतिषेधोऽप्याश्रयणीयः । चतु- रस्राः परिमण्डला वा । धिष्ण्यानां द्विप्रादेशो विष्कम्भ (१।७६) इति वचनात् । माना- धारस्य क्षेत्रस्य अरत्निविष्कम्भपरिमण्डलत्वात् मण्डलं चतुरस्र (१।४८) मित्यादिना चतुरस्रकरणम् । तत्र चतुरस्रकरणी एकविंशतिरङ्गुलयो नव तिलाश्च ॥ ३७ ॥ तेषामाग्नीध्रीयं नवधा विभज्यैकस्याः स्थानेऽश्मानमुप- दध्यात् ॥ ३८ ॥ तेषामिति । तेषां धिष्ण्यानां मध्ये आग्नीध्रीयं नवधा विभज्य मध्ये अश्मानमुपदध्यात् ॥ ३८ ॥ तेषामिति । तेषां धिष्ण्यानां मध्ये आग्नीध्रीयं नवधा विभज्य "मध्ये दिवो- निहितः पृश्निरश्मेति" लिङ्गान्मध्यमामुद्धृत्य तत्प्रमाणमश्मानमुपधाय पुरस्तादा- रभ्येतराभिरुपधानम् । १०