बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 127, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ६७ हंसमुख्यौ पश्चिमपार्श्वे प्रागग्रे द्वे हंसमुख्यौ । तासां मध्ये दक्षिणोत्तराग्रे अन्तर्दीर्घपार्श्वे पादेष्टके । चतुरस्रदक्षिणोत्तरपार्श्वयोर्मध्यभूतान्तरालयोर्बहिर्दीर्घपार्श्वे दक्षिणोत्त- राग्रे द्वे पादेष्टके । एवं अष्टेष्टकं दीर्घचतुरस्रं भवति ॥ ४२ ॥ हंसमुख्यौ प्रतीच्यौ पुच्छाप्ययेऽर्धपदेनात्मनि विशये । तयो- रवस्तादभितस्तिस्रः पादेष्टकाः प्राङ्मुख्योरुपदध्यात् । पुच्छस्याव- स्तात् पञ्चदश पादेष्टका व्यतिषक्ता उपदध्यात् ॥ ४३ ॥ प्रतीच्याविति । प्रत्यङ्मुखे इत्यर्थः । पुच्छाप्यय इति । पुच्छात्म- सन्धवित्यर्थः । अर्धपदेनेति । मुखं सन्नतांशो यथा पुच्छे इतरांशश्च आत्मनि भवति तथोपदध्यादित्यर्थः । आत्मान्तर्गते विशये एकदेशे इत्यर्थः । विशयशब्दस्यैकदेशार्थत्वमापस्तम्बेनोक्तम् । अभित इति । हंसमुख्यो- र्दक्षिणत उत्तरतः मध्यतश्चेत्यर्थः । पुच्छस्येति । अवस्तादिति । अग्र इत्यर्थः ॥ ४३ ॥ हंसमुख्याविति । पुच्छात्मसन्धौ द्वे हंसमुख्यौ प्रत्यगग्रे । अर्धपदमात्रेणोप- लक्षितो योऽवयवः स आत्मनि यथा भवति तथा उपदध्यात् । विशयशब्दार्थमाह आपस्तम्बः । अर्धमात्मनि अर्धं पक्षे इति । तत्र अर्धशब्दस्योभयत्र स्थित्युप- लक्षणत्वाद् एकदेशोऽपि गृह्यते । तयोरिति । तयोर्हंसमुख्योः पश्चाद् अभितो दक्षिण- तश्चोत्तरतश्च प्रागग्राः पादेष्टकास्तिस्र उपदध्यात् । हंसमुख्योः पश्चात् प्रत्यग्दीर्घ- पार्श्वीः प्रागग्राः हंसमुख्योरग्राभ्यां संहिता उपदध्यादित्यर्थः । पुच्छस्येति । पुच्छाग्रे [L20