भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 129, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 129

[Header] CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

ऽध्यायः ] बौधानीयम् ६६

अथापरः ॥ ४६ ॥ पञ्चपत्त्रश्येननिरूपणान्तरं षट्पत्त्रश्येनप्रकारो निरूप्यते तन्निरूपणा- धीननिरूपणत्वादित्यर्थः । अथेति ॥ ४६ ॥ अथ उक्तमेव श्येनचितं प्रकारान्तरेणाह—अथापर इति । अथशब्दः पूर्वेण सम्बन्धार्थः । ये पूर्वस्य उक्ता धर्माः अंसापच्छेदनादय अस्यापि ते भवन्तीति । अपरः प्रकारः । श्येनाकृतेरपरः प्रकारो वक्ष्यत इत्यर्थः ॥ ४६ ॥ पुरुषस्य पञ्चमीभिः शतमशीतिः सप्तार्धञ्च सारत्निः प्रादेशः सप्तविधः संपद्यते ॥ ४७ ॥ पुरुषस्येति । पुरुषस्य विंशत्युत्तरशताङ्गुलप्रमाणस्य पञ्चमीभिः पञ्चमांशप्रमाणाभिरिष्टकाभिरित्यर्थः । सर्वतोऽरत्निप्रमाणाभिरिति यावत् । पञ्चमीभिरिति षष्ठ्यर्थे तृतीया । शतमशीतिः सप्तार्धञ्च सारत्निप्रादेशः सप्तविधः संपद्यते, अर्धाष्टमोत्तराशीत्यधिकशतेष्टकापरिमितक्षेत्रविशेषः सार्धसप्तविधोऽग्निर्भवतीत्यर्थः ॥ ४७ ॥ पुरुषस्येति । षष्ठ्यर्थे तृतीया । पुरुषस्य पञ्चमीनां इष्टकानां शतमशीतिश्च सप्त चार्धेष्टका च सारत्निप्रादेशः सप्तविधः संपद्यते । पुरुषक्षेत्रे पञ्चविंशतिः पञ्चम्यः शेरते । अर्धपुरुषक्षेत्रे अर्धत्रयोदश । एवं सारत्निः ॥ ४७ ॥ तासां पञ्चाशद् द्वे चात्मनि ॥ ४८ ॥ तासामिति । पञ्चमीनामित्यर्थः । पञ्चाशद् द्वे चेष्टके आत्मनि यथा सम्भवन्ति तथोपद्ध्यात् । एवञ्च सति षष्टिरिष्टकाः शेरते, अवशिष्टाना- मिष्टकानां वक्ष्यमाणेन (३।५२) स्रक्त्यपच्छेदेन निवृत्तिर्भवति ॥ ४८ ॥ ताभिरिष्टकाभिरात्मपक्षपुच्छशिरसां मानमाह—तासामिति । उपदध्यादिति शेषः । एवं सर्वत्र । सामर्थ्यादात्मक्षेत्रं षडरत्निविस्तारं द्विपुरुषायामं दीर्घचतुरस्रं भवति । तत्र षष्टिः पञ्चम्यः शेरते । अर्धव्यायामेन स्रक्तीनामपच्छेद ( ३।५२ ) इति वक्ष्यते । एवं श्रोण्यंसेषु द्वाभ्यां द्वाभ्यामरत्निभ्यामपच्छेदने कृते अरत्न्यष्टकं निरस्तं भवति । शेषाः पञ्चाशद् द्वे च भवन्ति ॥ ४८ ॥ अर्धचतुर्थाः शिरसि ॥ ४९ ॥ अर्धचतुर्था इति । अर्ध चतुर्थं (च) यासां ता अर्धचतुर्था इत्यर्थः । मूर्ध्नि उपदध्यादित्यर्थः । शिरसः अंसापच्छेदार्थमेकपञ्चमीक्षेत्रेण सह द्वय-