बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 146, कुल 366 में से
संदर्भ में पढ़ें११६ शुल्बसूत्रम् [ तृतीयो- पश्चिमान्त्यप्रदेश इत्यर्थः । सप्तचत्वारिंशदिति । अपरस्मिन् भागे प्राग- ग्राश्चतुर्विंशतिः पाद्याः प्रत्यगग्राश्चयोर्विंशतिः पाद्याः इत्येवं व्यासेनोपदध्या- दित्यर्थः । चुबुक इति । अग्रप्रदेशे प्रागग्रां शूलपाद्यामित्यर्थः । दीर्धे चेतर इति । दीर्धे द्वे पाद्ये आहत्य चतस्रः पाद्याः प्राक्प्रत्यग् दीर्घचतुरश्रं यथा भवति तथा स्वयमातृण्णास्थाने उपदध्यादित्यर्थः ॥ ८४ ॥ अपरस्मिन्निति । अपरस्मिन्ननीके अपरान्ते । पादेष्टकाः शूलपाद्याः इतरासाम- सम्भवात् । चतुर्विंशतिः प्रागग्राः । चुबुक इति । शूलपाद्याम् । दीर्घ इति । दक्षिणत उत्तरतश्चाभ्यन्तराग्रे दीर्घपाद्ये । इतरे शूलपाद्ये प्राक्प्रत्यगग्रिके । नियमार्थं वचनम् । अध्येंति । व्याख्यातम् । शेषमिति । पूर्ववत् । तत्रैवमुपधानम्— पश्चिमार्धे शूलपाद्याः सप्तचत्वारिंशत् । पूर्वान्ते चैका । मध्ये उदीच्यः एकादश रीतयः । तासु सर्वासु पार्श्वयोरर्ध्याः प्रागायताः । मध्यरीत्यां मध्यमामुद्धृत्य तस्याः स्थाने पूर्वोक्तपाद्याचतुष्टयम् । चतुर्थपञ्चम्योरीत्योः पार्श्वतस्तिस्रस्तिस्रो बृहतीरुद्धृत्य षट् षट् अर्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतुर्दशशतं बृहत्यः । चतुस्त्रिंशदर्ध्याः । पञ्चाशत् शूलपाद्याः। द्वे दीर्घपाद्ये । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । प्रउगचितं चिन्वीत भ्रातृ- व्यवानिति । स एतस्यैव सतः समुद्गृह्यांसौ प्रागायातयति स तथा विहृतो भवति । न बहिर्वेदिपूषः स्यात् (बौ० श्रौ० सू० १७।२८ पृ० २०७) इति । समुद्गृह्येति अंसौ संकोचयित्वेत्यर्थः ॥ ८४ ॥ [ इति प्रउगचिदुपधानप्रकारः । ] उभयतः प्रउगं चिन्वीतेति ॥ ८५ ॥ उभयत इति ॥८५॥ उभयत इति । विज्ञायते इति शेषः ॥ ८५ ॥ यावानग्निः सारत्निप्रादेशस्तावदुभयतःप्रउगं कृत्वा नवमेन तिर्यङ्मान्याः प्रउगचितोक्ता विकाराः ॥ ८६ ॥ यावानग्निरिति । यावानग्निः सार्धसप्तविधमग्निक्षेत्रमुभयतःप्रउगा- कारं कृत्वेत्यर्थः । एतदुक्तं भवति—सार्धैर्काविंशतितिलाधिकविंशत्युत्तरशताङ्गुल(?)ति- र्यङ्मानीकं द्विगुणपार्श्वमानीकं प्राक्प्रत्यग्दीर्घचतुरश्रं विहृत्य पूर्वापरदक्षि-