बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 154, कुल 366 में से
संदर्भ में पढ़ें१२४ शुल्बसूत्रम् [ तृतीयो- नेमिः शेषाः ॥ ९९ ॥ नेमिरिति । नेमिः रथचक्रान्त्यप्रदेशः । पञ्चचत्वारिंशच्छतेष्टका नेमिः । ताभिर्नेमिं कुर्यादित्यर्थः ॥ ९९ ॥ नेमिरिति । शेषाः विनियुक्तावशिष्टाः पञ्चचत्वारिंशच्छतमिष्टकाः नेमि- र्भवन्ति । रथचक्रस्य बाह्यावयवो नेमिः ॥ ९९ ॥ नाभिमन्ततः परिलिखेत् ॥ १०० ॥ नाभिमिति । नाभ्यन्तरं कृतं चतुरश्रं परिमण्डल(१।४७)मित्यादिना परिमण्डलं कुर्यात् । यद्यपि परिलिखेदिति सामान्यनिर्देशाद् यथा कथञ्चि- दुपपद्यते, तथापि लोके रथचक्रनाभिमण्डलाकारदर्शनादिहापि परिमण्डलं कर्त्तव्यमिति गम्यते ॥ १०० ॥ नाभिमिति । नाभिः षोडशमध्यमा (३।९६) इत्युक्तम् । तां नाभिमन्ततः सर्वतो लिखेत् । अक्ष्णयार्ध (१।४७) मित्यादिना ॥ १०० ॥ नेमिमन्ततश्चान्तरतश्च परिलिख्य नेमिनाभ्योरन्तरालं द्वात्रिंशद्धा विभज्य विपर्यासं भागानुद्धरेत् । एवमावाप उद्धृतो भवति ॥ १०१ ॥ नेमिमिति । नेमिमन्तरं ततः परिलिखेत् नेमेरन्तरं तस्य नेमेरन्तरं(१) तस्य नेमेरन्त्यप्रदेशे च परिमण्डलद्वयं कुर्यात् । पूर्वोक्तन्यायेनान्तप्रदेशे परिमण्डलं भवति । लोके मध्ये परिमण्डलाभावेऽपि रथचक्रकरणसम्भ- वादिहापि मध्ये परिमण्डलकरणे प्रमाणं नास्तीति चेन्न, अत्रापि लेखन- विधानाच्चतुरश्रातिरिक्तं यत्किञ्चित्कर्त्तव्यमुभयत्रापि परिमण्डलदर्शनाद- विशेषादत्रापि परिमण्डलं भवति । अयमर्थः—अरवेद्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं नेम्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं त्रीणि मण्डलानि भवन्ति । ननु मण्डलत्रैविध्ये प्रमाणाभावात् प्रत्युत चतुःषष्टिरराश्चतुःषष्टिर्वेदिरिति पृथग्, नेमिः शेषा इति पृथगुपदेशाच्च- त्वारि मण्डलानि भवन्ति । अथ परिमण्डलमूलभूतचतुरश्रचतुष्टयासम्भवाद् न परिमण्डलचतुष्टयं सम्भवति । अस्तु वा चतुरश्रचतुष्टयसम्भवः अथापि अरार्थकृतपरिमण्डलादुपरि वेद्यर्थं परिमण्डलं कर्त्तव्यम् । तस्या-