बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 22, कुल 366 में से
संदर्भ में पढ़ें( ज ) भूतया यत् क्रियते तदुभयं करोतीति नवमिताया अक्ष्णयायाः समचतुरस्रे कृते एकाशीति तुल्यं क्षेत्रफलं भवति । तस्मात् एकाशीतिमितात् क्षेत्रफलाद् यदि एकमितायास्तिर्यङ्मान्या कृतस्य क्षेत्रस्य फलम् एकमितं निरस्यते तदा अशीतिरेवावशिष्यते । तदेव तादृशदीर्घ- चतुरस्रस्याक्ष्णतया पार्श्वमान्या कर्तुं योग्यस्य समचतुरस्रस्य क्षेत्रफलमर्थादापन्नमिति । सैव पार्श्वमानी अशीतिकरणी ज्ञेया । दीर्घचतुरस्रस्य समचतुरस्रीकरणेऽपि तुल्यो न्यायः प्रयोक्तव्यः । तद्यथा इष्टस्य दीर्घचतुरस्रस्य ह्रस्वेन भुजेन तदन्तः समचतुरस्रं निष्पाद्य शेषं क्षेत्रं समं द्वेधा विभजेत् । तथा विभक्तयोरेकं पूर्वनिष्पन्नसमचतुरस्रसंलग्नं विहायापरं तत्समीपस्थे समचतुरस्रपार्श्वे योजनीयम् । एवं कृते इष्टस्य दीर्घचतुरस्रस्य पश्चिमभागे यदि तत्तिर्यङ्मान्या समचतुरस्रं कृतं तदा तत्पूर्वभागस्थितं क्षेत्रं समं द्विधा भिन्नं सत् भिन्नयोः सतोः पश्चिमभागस्थं तत्रैव हित्वा पूर्वभागस्थं क्षेत्रं समचतुरस्रस्य दक्षिणपार्श्वे संस्थापितं भवेत् । तेन च समचतुरस्रस्य पूर्वभागे दक्षिणभागे च क्षेत्रद्वयसंयोजनात् तस्य पूर्वदक्षिणदिशि यत् खण्डमवशिष्टं तस्य पूरणम् अधिकक्षेत्रसंयोजनेन कर्तव्यम् । तेन समचतुरस्रसिद्धिः । अस्य च अधिकस्य क्षेत्रस्य निर्हारः पूर्ववत् कर्तव्यः । तेन इष्टस्य दीर्घचतुरस्रस्य समचतुरस्रत्वं सम्पन्नम् । अन्ये च क्षेत्र- सम्पादनप्रकाराः प्रस्तुतग्रन्थे यथास्थानं सूत्रकृद्भीरुपदिष्टाः बाहुल्यभयेन नात्रालोच्यन्ते । इदानीं शुल्बसूत्रस्य स्थण्डिलनिर्वृत्त्यौपयिक इष्टकोपधानरूपो विषय एवालोच्यते । स च प्रकारो लौकिकवास्तुशास्त्रीयेष्टकोपधानप्रकारतो भिन्न इति तत्प्रकारस्य शुल्बसूत्र- विषयत्वम् । तत्र विहितक्षेत्रनिष्पत्तेरनन्तरं तस्मिन् इष्टकानां यथाविधि स्थापनमेवोपधान- मित्युच्यते । तदर्थं आदौ इष्टका एव विहितस्वरूपाः सम्पादनीयाः । इष्टकाः तावत् प्रथमतः इष्टस्वरूपसम्पादनोपयोगिना काष्ठनिर्मितेन करणाख्येन उपकरणेन सम्पादनीयाः । इष्टकानां स्वरूपं तावत् स्थण्डिलस्याकारविशेषानुविधायि सूत्रेषु यथायथमुपदिष्टम् । सम्पन्नानामिष्ट- कानाम् आर्द्रत्वात् शोषपाकाभ्यां ह्रासो भवतीति यथाप्रमाणमिष्टकानां सम्पादनार्थं किञ्चिद- धिकप्रमाणा आर्देष्टकाः कार्या इति कात्यायनः । हसते पाकशोषाभ्यां द्वात्रिंशद्भागमिष्टकाः । तस्मादार्द्रप्रमाणन्तु कार्यं मानाधिकं बुधैरिति । महीधरधृत श्लोकादवगम्यते । तथा च आर्देष्टकास्तु विहितप्रमाणतो द्वात्रिंशद्- भागेनाधिकाः कार्याः । करणमपि तथैवाधिकप्रमाणकं कार्यमिति । बौधायने तु—२।२८ सूत्रे "यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेद्" इति करणानां विहितेष्टकाप्रमाणत्वमेवो- पदिष्टम् । इष्टकानाम्पुर्ध्वप्रमाणं तावत् जानोः पञ्चमांशतुल्यमिति तेन ६३२ अङ्गुलमूर्ध्वप्रमाणं, पृथुत्वमित्यर्थः, इष्टकानाम् आयामविस्तारौ तु यथास्थण्डिलं भिद्यत इति तत्तच्चितौ तेषां