बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 24, कुल 366 में से
संदर्भ में पढ़ें( ञ ) यथा तथा वा भवतु बौधायनशुल्बसूत्रादिकन्तु निर्विवादं भारतीयानां प्रतिभाया द्योतकमित्यत्र नास्ति सन्देहलेशोऽपि । एतादृशस्य ग्रन्थस्याध्ययनादिकमपि परमावश्यकम् । सुदुर्लभस्यास्य ग्रन्थस्य प्रकाशनं श्रेयस्करमिति मत्वा संस्कृतविश्वविद्यालयाधिकारिभिरादिष्टो- ऽभवमस्य ग्रन्थस्य सम्पादनार्थम् । तदर्थं टीकान्तरमन्विष्यता मया शुल्बमीमांसाख्यायाः बौधायनशुल्बसूत्रस्य व्यङ्कटेशदीक्षितविरचिताया व्याख्यायाः भण्डारकर ओरिएण्टल रिसर्च इन्स्टिट्यूट् ग्रन्थालयतः एका प्रतिलिपिरासादिता । इयं प्रतिलिपिस्तावत् प्रायशः शुद्धेति कादाचित्काया अशुद्धेः परिमार्जनार्थं मत्कल्पिताः पाठाः बन्धनीमध्यगताः प्रश्नचिह्नयुता कृताः । छेद्यकानां प्रतिरूपन्तु कस्यचिदज्ञातस्य पुरुषस्याज्ञया ग्रन्थाकृतितो विपुलं निर्मितमिति चितीनां छेद्यकन्तु प्रतिरूपनिर्माणार्थं प्रदत्तमपि नष्टम् । चक्षुरोगवशात् सूक्ष्मवस्तुनि दृष्टि- पातस्य चिकित्सकैः प्रतिषिद्धत्वात् पुनः तन्निर्माणेऽशक्तोऽहमिति पाठकैः क्षन्तव्योऽहम् । विदुषामनुचरः विभूतिभूषणभट्टाचार्यः