बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 36, कुल 366 में से
संदर्भ में पढ़ें८ शुल्बसूत्रम् [ प्रथमो- पदं पञ्चदश ॥ ८ ॥ पदमिति । “त्रिंशत्पदानि पश्चात्” (बौ. शु. सू. १।६६) इत्यादिषु पञ्चदशाङ्गुलानि पदमिति वेदितव्यम् ॥ ८ ॥ पदमिति । त्रिंशन् पदानि (बौ० शु० सू० १।६९) इत्यादिषु पञ्चदशाङ्गुल- प्रमाणं पदं विद्यात् । क्षुद्रपदादीनां पदान्तानां क्रमविध्युपादानात् परस्पर- संबन्धः ॥ ८ ॥ अष्टाशीतिशतमीषा ॥ ९ ॥ अष्टाशीतीति । “अन्तरेणेपे तिष्ठन् पलाशशाखां धारयन्” (बौ. श्रौ. सू. ३०।४) इत्यादिषु अष्टाशीत्यधिकं शतमङ्गुलानि ईषेति वेदितव्यम् ॥ ६ ॥ अष्टाशीतीति । रथसंमितेत्येकेषाम् (बौ० शु० सू० १।६१ सू०) इत्यादिषु ईषाप्रमाणमष्टाशीतिशताङ्गुलप्रमाणं विद्यात् ॥ ९ ॥ चतुःशतमक्षः ॥ १० ॥ चतुःशतमिति । “रथाक्षान्तराला यूपावटा भवन्ति” (बौ. शु. सू. १।७६) इत्यादिषु चतुरधिकशताङ्गुलानि (अक्ष इति वेदितव्यम् ?) ॥१०॥ चतुरिति । तत्रैव रथाक्षान्तराला यूपावटा भवन्ति (बौ० शु० सू० १।७९) इत्येवमादिषु चतुरधिकशताङ्गुलमक्षप्रमाणं विद्यात् ॥ १० ॥ षडशीतिर्युगम् ॥ ११ ॥ षडशीतीति । “विपथयुगेन पुरस्तात्” (बौ. श्रौ. सू. २०।२५) इत्यादिषु षडशीत्यङ्गुलं युगमिति विद्यात् ॥ ११ ॥ षडेति । तत्रैव षडधिकाशीतिप्रमाणं युगं विद्यात् । ईषादीनां रथावयवापेक्षया संगतिः ॥ ११ ॥ द्वात्रिंशज्जानुः ॥ १२ ॥ द्वात्रिंशेति । “ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत्” (बौ. शु. सू. २।६) इत्यादिषु द्वात्रिंशदङ्गुलानि जानुरिति विद्यात् ॥ १२ ॥ द्वात्रिंशेति । ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य (बौ० शु० सू० २।६) इत्यादिषु द्वात्रिंशदङ्गुलप्रमाणं जानोः प्रमाणं भवति ॥ १२ ॥