भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 38, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 38

तत्र "प्राग्वंशः षोडशप्रक्रमायाम" (बौ. शु. सू.) इत्यत्र द्विपदस्त्रिपदो वा प्रक्रमो ग्राह्यः । एवं पदादिषु । तथा च प्रक्रमादिशब्दार्थानामेव मिथो विकल्प इत्यर्थः ॥ १६ ॥ अथेति । पक्षान्तरमिदम् । अत्र कात्यायनः "द्वादशाङ्गुलं पदं चत्वारोऽष्टकाः शम्येति" च (का० शु०)। आपस्तम्बः "प्रक्रमो द्विपदस्त्रिपदो वेति" (आप० शु०) । पदादिषु मानार्थेषु चोदितेषु लोकसिद्धैः शाखान्तरोक्तैश्च विकल्पन्ते । तत्रापस्तम्बः "यजमानस्याध्वर्योर्वेष हि चेष्टानां कर्त्ता भवति" इति ॥ १६ ॥ पञ्चारत्निः पुरुषः ॥ १७ ॥ पञ्चारत्निः पुरुष इति । पञ्च अरत्नयो यस्य सः पञ्चारत्निः पुरुष इत्यर्थः । "पुरुषमात्रेण वेणुना विमिमीत" (बौ. श्रौ. सू. १०।१९ ) इत्यादिषु पञ्चारत्निः प्रमाणं पुरुष इति वेदितव्यम् ॥ १७ ॥ पञ्चेति । "पुरुषमात्रेण विमिमीते" इत्यादिषु पञ्चारत्निं पुरुषं विद्यात् ॥ १७ ॥ व्यामश्च ॥ १८ ॥ व्यामेति । "व्याममात्रौ पक्षौ" (बौ. शु. सू. २।२०) इत्यादिषु पञ्चारत्निप्रमाणो व्याम इति वेदितव्यम् ॥ १८ ॥ व्यामेति । व्याममात्रौ पक्षौ (बौ० शु० सू० २।२०) इत्यादिषु व्यामश्च पञ्चारत्निः ॥ १८ ॥ चतुररत्निर्व्यायामः ॥ १९ ॥ चतुररत्निरिति । चत्वारोऽरत्नयो यस्य सः । "व्यायाममात्री भवती ति गार्हपत्यचितेर्विज्ञायते" (बौ. शु. सू. २।६०) इत्यादिषु चतुररत्नि- प्रमाणो व्यायाम इति वेदितव्यम् ॥ १९ ॥ चतुरिति । "व्यायाममात्री भवतीति गार्हपत्यचितेः" (बौ० शु० सू० २।६०) इत्यादिषु चतुररत्निव्यायामः ॥ १९ ॥ [ इति रेखामानपरिभाषा ] चतुरश्रं चिकीर्षन् यावच्चिकीर्षेत् तावतीं रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति ॥ २० ॥ अग्न्याहवनीयादिकरणोपयुक्तत्वेन प्रथमं चतुरस्रकरणप्रकारमाह—