बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 45, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं १७ प्रमाणं तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुस्त्रिकरणी ॥३५॥ अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणमभिमतद्वादशाङ्गुलं तिर्यङ्मानीं कृत्वा पूर्वोक्तां द्विकरणीं रज्जुं पार्श्वमानीं कृत्वा यद्दीर्घ- चतुरस्रं भवति तस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्मानी च यदि भवेत् सा त्रिकरणी । पूर्वोक्तप्रमाणक्षेत्राद् द्वादशाङ्गुलात् त्रिगुण- समचतुरस्रं क्षेत्रं करोति ॥ ३५ ॥ अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणं द्वादशाङ्गुलं तिर्यक् । तस्य द्विकरणी तिलोनसप्तदशाङ्गुला पार्श्वमानी । एवं भूतस्य दीर्घचतुरस्रस्याक्षणयारज्जु विंशति- रङ्गुलयः सप्तविंशतिः तिलाश्च । सा त्रिकरणी प्रमाणविमितक्षेत्रत्रिगुणं क्षेत्रं करोति ॥ ३५ ॥ तृतीयकरण्येतेन व्याख्याता । नवमस्तु भूमेर्भागो भवतीति ॥३६॥ प्रमाणक्षेत्रस्य गुणवृद्धिमुक्त्वा उक्तन्यायेन ह्रासेन तृतीयांशकरणमाह— तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा विभज्य एकस्य भागस्य या करणी सा तिर्यङ्मानी, तस्य द्विकरणीं पार्श्वमानीं कृत्वा तस्याक्षणयारज्जुस्तृतीयकरणी भवति । प्रमाणक्षेत्राद् अंशद्वयहीनं तृतीयमंशं क्षेत्रं करोतीत्यर्थः ॥ ३६ ॥ तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा विभज्य एकभागस्य करणी तिर्यङ्मानी तद्द्विकरणी पार्श्वमानी । तस्याक्षणयारज्जुः तृतीय- करणी । प्रमाणपरिमितात् क्षेत्रात् तृतीयं क्षेत्रं करोति । एषा फलकरणा- स्तृतीयभागा । अनेन सूत्रेणेदमपि सूचितं भवति— १. प्रमाणं तिर्यक् त्रिकरण्यायामस्तस्याक्षणयारज्जुश्चतुष्करणी । २. प्रमाणानि त्रीणि तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुरेकादशकरणी । एकादशभेदकरण्येतेन व्याख्याता । विभागास्तु एकविंशाधिकशतधेत्यर्थः ॥ ३६ ॥ [ इति त्रिकरणीतृतीयकरण्योरानयनम् । ] दीर्घचतुरश्रस्याक्षणयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्- पृथग्भूते कुरुतस्तदुभयं करोति ॥ ३७ ॥ दीर्घचतुरस्रेति । दीर्घचतुरस्रस्य पार्श्वमान्या सर्वतो मित्वा यत् ३