बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 48, कुल 366 में से
संदर्भ में पढ़ें२० शुल्बसूत्रम् [ प्रथमो- दीर्घचतुरस्रस्याक्षणयारज्जुः समस्तयोः करणी भवति। तदुक्तम् “दीर्घचतुरस्रस्या- क्षणयारज्जुः” (१।३७) इत्यादिना। अत्र लघूपायः। बृहच्चतुरस्रकरणीं अल्पचतुर- स्रकरणीञ्च पृथग् वर्गयित्वा संयोज्य तस्य मूलमानीय तत्प्रमाणया रज्ज्वा सम- चतुरस्रे कृते उभे चतुरस्रक्षेत्रे समस्ते भवतः ॥ ३९ ॥ ( इति समचतुरश्रयोः समसनप्रकारः । ) चतुरश्राच्चतुरश्रं निर्जिहीर्षन् यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयासो वृध्रमुल्लिखेत्। वृध्रस्य पार्श्वमानीमक्षणयेतरत्पा- र्श्वमुपसंहरेत्। सा यत्र निपतेत् तदपच्छिन्द्यात् छिन्नया- निरस्तम् ॥ ४० ॥ महाचतुरश्रादल्पचतुरश्रस्यापोद्धारप्रकारमाह—चतुरश्रादिति । चतुरश्रात् पुरुषचतुष्टयमितक्षेत्रादिकात् चतुरश्रं एकपुरुषप्रमाणादिकं निर्जिहीर्षन् अपोद्धरन् यावन्निर्जिहीर्षेत् तस्य करण्या अपजिहीर्षितस्य चतुरश्रस्य करण्या पार्श्वमान्या वर्षीयसमधिकस्य वृद्धमुल्लिखेत् । वृद्धस्य महाचतुरश्रस्य करणीं पार्श्वमानीं कृत्वा अपजिहीर्षितस्य चतुरश्रस्य करणीं तिर्यङ्मानीं कृत्वा, वृद्धस्य पार्श्वमानीकृतस्य दीर्घचतुर- श्रस्य दक्षिणाप्राचीकोणादारभ्य पश्चिमोत्तरकोणं प्रति अक्षणया कर्षेत् । सा एवं कृत्वा प्रकृतायाः पार्श्वमान्याः यत्र प्रदेशे निपतेत् समाप्ता भवति, तदपच्छिन्द्यात् करणीमिति शेषः । छिन्नयेति । छिन्नया करण्या समचतुरश्रे कृते अपजिहीर्षितं चतुरश्रं निरस्तम् । पुरुषप्रमाणे चतुरश्रे निरस्ते अवशिष्टं क्षेत्रं त्रिपुरुषप्रमाणकमवतिष्ठत इत्यर्थः ॥ ४० ॥ चतुरस्रादिति । निर्हारो निरसनम् । यथा त्रिविधाग्नौ क्रियमाणे द्विपुरुषेण चतुरस्रे कृते चतुःपुरुषो भवति । तत्र एकत्यागार्थं पुरुषमात्र्या तिर्यङ्मान्या वृध्रमुल्लिख्य इतरस्योत्तरां पार्श्वमानीं दक्षिणाप्राचीमितरत्पार्श्वं गमयेत् । सा च तत्र द्विपुरुषप्रमाणायां चत्वारिंशच्छतद्वयाङ्गुलायां पञ्चतिलोने अष्टशतद्वयाङ्गुले निपतति । ततः पुरस्ताद् द्वात्रिंशदङ्गुलं पञ्च तिलांश्च अपच्छिन्द्यात् । परिशिष्ट्या करण्या चतुरस्रे कृते पुरुषो निरस्तो भवति ॥ ४० ॥ [ इति महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः । ]