बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 67, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ३१ तत इति । ततः सदश्चतुर्षु पदेषु प्रक्रमेषु वा विसृष्टेषु हविर्धानं कर्तव्यम् । तदिति । तत्सर्वतो दशप्रक्रमप्रमाणं वा, सर्वतो द्वादशप्रक्रम- प्रमाणं वा कर्तव्यम् ॥ ७१ ॥ मानयोगस्तयोर्व्याख्यातः ॥ ७२ ॥ मानयोग इति । तयोः सदोहविर्धानयोर्मानयोगः पूर्वमुक्त इत्यर्थः ॥ ७२ ॥ तत इति । मानयोग इति । प्रमाणादध्यर्धा (१।३२) मित्यादिना । सदस उदीची पृष्ट्या ॥ ७१-७२ ॥ [ इति सदोहविर्धानविहरणोपायः । ] यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्योत्तरवेदिं विमिमीते । दशपदोत्तरवेदिर्भवतीति सोमे विज्ञायते । मानयोगस्तस्या व्याख्यातः ॥ ७३ ॥ यूपावटीयाच्छङ्कोरिति । एकतोऽणिमद्दीर्घचतुरश्रात्मिकाया वेदेः प्राक्तिर्यङ्मान्या मध्ये शङ्कु' निहन्यात् स शङ्कुर्यूपावतीय इत्युच्यते । तस्य पश्चिमप्रदेशे अर्धप्रक्रममवशिष्य ततः पश्चिमप्रदेशे उत्तरवेदिं विमिमीते । तस्याः प्रमाणप्रतिपादकं ब्राह्मणमाह—दशपदोत्तरवेदि- रिति । सर्वतो दशपदेन दण्डेन मीयमाना शतपदक्षेत्रेत्यर्थः । यद्वा दशपदक्षेत्रेत्यर्थः । "पदं तिर्यक् त्रिपदा पार्श्वमानी तस्याक्ष्णयारज्जुर्दश करणी । दशपदोत्तरवेदिर्भवती”ति कात्यायनवचनात् । चतुर्दश- तिलोनाङ्गुलत्रयसहितपदत्रयमाणेण दण्डेन सर्वतो मीयमाना दशपद- क्षेत्रोत्तरवेदिर्वेदितव्या । केचित्तु “तां युगेन, यजमानस्य वा पदैर्विमाये”ति वचनाद्युगमपि स्वतन्त्रप्रमाणमाहुः । तस्मिन् पक्षे कल्पसूत्रोक्तं क्षुद्रपदैर्मानमपि लभ्यत इति एकतोऽणिमद्दीर्घचतुरश्ररूपाप्युत्तरवेदिरनुसन्धेया । मानयोग इति । स्फुटम् ॥ ७३ ॥ यूपावटीयादिति । तस्याः प्रमाणमाह--दशपदेति । सर्वतो दशपदा क्षेत्रतः शतपदा । क्षेत्रतो दशपदा वा । अत्र कात्यायनः । पदं तिर्यक् त्रिपदा पार्श्वमानी