बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 71, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ४३ अयमर्थः—एवंभूतप्रमाणेन प्रक्रमेण “त्रिंशत् पदानि प्रक्रमा वे”त्यादिप्रकारेण महावेदिं कुर्यात् ॥ ७९ ॥ रथेति । तत्र प्रकारमाह । तस्या इति । दशानाञ्च रथाक्षाणां चत्वारिंशदधिक- सहस्राङ्गुलानाम् । एकादशानाञ्च पदानां यूपावटविष्कम्भाणां पञ्चषष्ट्यधिकशताङ्गु- लानाम् । अष्टाङ्गुलस्य च । कल्पे एकादशिनीविधावग्निष्ठस्य दक्षिणोत्तरेण यूपौ चतुरङ्गुलेन विप्रकृष्टौ भवत इत्युक्तम् । तस्मादष्टाङ्गुलस्य च । एतेषां त्रयाणां चतु- र्विंशभागमष्टादशतिलसहितं पञ्चाशदङ्गुलमाददीत । स इति । एकादशिनीवत्या महावेदेः । तेनेति । त्रिंशत् पदानीत्यादि ॥ ७९ ॥ अथाश्वमेधे विंशत्याश्च रथाक्षाणामेकविंशत्याश्च पदानाम- ष्टाङ्गुलस्य चतुर्विंशं भागमाददीत । स प्रक्रमः स्यात् । तेन वेदिं विमिमीते ॥ ८० ॥ अथाश्वमेध इति । अथाश्वमेधे “यूपैकादशिनो” न्यायेन एकविंशति- यू