भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 83, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 83

ऽध्यायः ] बौधायनीयं ५३ मभागस्य चतुर्विंशतिभागेनैवैक आचार्याः समामनन्ति वदन्तीत्यर्थः । एवञ्चादौ अनुष्ठीयमानस्याग्नेः वक्ष्यमाणोर्ध्वप्रमाणं जानुपञ्चमांशापेक्षया जानुपञ्चमांशचतुर्विंशतिभागेन तिर्यङ्मानवदुत्तरोत्तरवृद्धिः कर्तव्येत्यर्थः । एक इत्युक्त्या केषाञ्चिदाचार्याणामुक्तोर्ध्वप्रमाणवृद्धिर्नास्तीति गम्यते । केषाञ्चिदाचार्याणां मतं दूषयति—अथैहैके इति । एके आचार्याः । एकविधप्रभृतीनीति । एकविधत्रिविधादीन् । अपक्षपुच्छांश्चिन्वते चेतव्यान् वदन्तीत्यर्थः । तन्नेति । एकविधप्रभृतीनामनुष्ठानं न संभवतीत्यर्थः । ‘पूर्वापरेति । पूर्वापराभ्यां ब्राह्मणाभ्यां विरोधादित्यर्थः । तयोरेकं ब्राह्मणमुदाहरति--अथहैकेषामिति । अथापरं ब्राह्मणमुदाहरति—अथापरेषामिति । अथाभ्यां ब्राह्मणाभ्यां विरोधादेकविधप्रभृतीनामनुष्ठानं न सम्भवतीत्यर्थ इति केचिदाहुस्तदनुपपन्नम् । द्वयोर्विरोध इति वदन् वादी प्रष्टव्यो जायते किमेकविधप्रभृतीनां प्रथमतरामनुष्ठानं न सम्भवति श्येनत्वाभावेन प्रकृतित्वासम्भवात् ? किं वा द्वितीयादिभावेन “न ज्यायांस”मिति श्रुतिविरोधादिति । नाद्यः एकविधप्रभृतीनां श्येनत्वनिषेधाभावात् प्रकृतित्वेन प्रथमतरामनुष्ठानसंभवात् । ननु “नापक्षपुच्छः श्येनो विद्यते” इति (२।८) वक्ष्यमाणत्वाच्छ्येनस्य सपक्षपुच्छताया आवश्यकत्वेन एक- विधप्रभृतीनाञ्च पक्षपुच्छाद्यभावेन श्येनत्वासंभवः । न च एकस्मिन्नेव पुरुषे पक्षपुच्छादिकं संपादनीयमिति वाच्यम् । पुच्छपक्षयोः श्रुत्युपात्तव्याममात्रत्वाद्यनुपपत्तेरिति चेत् । सत्यम् एकविधप्रभृतीनां श्येनत्वाभावेन प्रकृतित्वाभावेऽपि प्रथमतरामनुष्ठानं संभवति । अनेन “अथैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते चतुरश्रानेक आचार्या” इति सूत्रेण ( ? ) एकविधप्रभृतीनामनुष्ठानोपदेशानुपपत्तेः । न च तस्य परमतोपन्यासत्वेन उपपत्तेरिति वाच्यम् । “तस्य करण्या द्वादशेने”ति स्वयं करण्युपदेशानर्थक्यप्रसङ्गात् । किञ्च कल्पसूत्रगतषड्विध- १. अत्र शु. दी. पाठभेदः ।