बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 88, कुल 366 में से
संदर्भ में पढ़ें५८ शुल्बसूत्रम् [ द्वितीयो- त्तरयोरिति । अग्न्यन्तेषु का गतिरित्यत आह—तदिति । तद्भेदान् वर्जयेदित्येतत् असिपर्यन्तेषु न विद्यते । तत्रावर्जनीयत्वाद् भेदस्य । तथा—नेति । साररथचक्रचयने नाभिमध्ये सक्तीनां सङ्गमे पार्श्वे च, भेदान् वर्जयेदित्येतत् न विद्यते । तत्राप्यवर्जनीयत्वाद् भेदानामिति भावः ॥ ९ ॥ अथ अग्निधर्मानाह—भेदानिति । भेदस्वरूपं स्वयमेवाह—अधरोत्तरयोरिति । किं सर्वत्र ? नेत्याह—तदग्न्यन्तेष्विति । अग्न्यन्तेषु अग्निपर्यन्तेषु । अन्तस्यावर्जनीय- त्वादिति भावः । नेति । सक्तिपार्श्वयोः । साररथचक्रचयने नाभिमध्ये सक्तीनामेव- सङ्गमः । तयोर्वर्जनीयत्वादिति भावः ॥ ९ ॥ साहस्रं चिन्वीत प्रथमं चिन्वान इति । पञ्चमायां वा चितौ [L12