बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 91, कुल 366 में से
संदर्भ में पढ़ेंया दक्षिणावृत इति लोक इष्टकाकारिणां प्रसिद्धमनूद्य देशविधानात् लोके च लेखाधिकारस्य प्रायिकत्वात् कल्पेऽनुक्तत्वाच्च लेखाधिकारो विकल्पते । लेखा- करणपक्ष अग्निक्षेत्रं पञ्चधा विभज्य प्रोक्षणदेशवद् दिक्सम्बद्धलेखायुक्तास्तेपू- पदध्यात् ॥ १२ ॥ अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन् पार्श्वे व्यतिरेकेण वर्त्तते नैवापरस्मिन् एवं तासामुपधानं प्रतीयात् ॥ १३ ॥ अथेति । अथ शब्दो लेखाधिकारव्यवच्छेदार्थः । लेखाधिकारो निवृत्त इत्यर्थः । या इष्टका विषयस्य मध्यस्थितास्तासामुपधानमेवं प्रतीयादि- त्युत्तरेणान्वयः । यथा पशोः पृष्ठवंश इति शेषः । शालामध्यवंश इव पुच्छादारभ्य मुखपर्यन्तं मध्य एव वर्तते । न त्वन्यतरपार्श्वे । एवकार- द्वयेन मध्य एव वर्तते, पार्श्वभूतो न वर्तत इति दृढीकृतम् । एवं पृष्ठ- वंशरीत्या तासां मध्यस्थेष्टकानामुपधानं जानीयादित्यर्थः । एवञ्च “सर्वान् वर्णान् इष्टकानां कुर्या”दिति वेदवाक्यस्य सर्वाणि रूपाणि ( इत्यस्य ? ) मध्यास्थिसदृशयः काश्चिदिष्टकाः, पार्श्वास्थिसदृशयः काश्चित् कर्त्तव्येत्यग्नेः पशुधर्मत्वकथनपरत्वेन व्याख्यानमाचार्यैः कृतं वेदितव्यम् ॥ १३ ॥ अथेति । अथ शब्दः पूर्वस्माद् व्यवच्छेदार्थः । व्यवच्छेदश्च लेखाधिकारो नास्तीति । विशयस्था मध्यस्थाः । यस्मादारभ्य पक्षपुच्छस्था इष्टका विविधं शेरते इति विशयाः । पुच्छादारभ्यान्तान्मध्यरेखायां या इष्टका उपधेयास्ता विशयस्था इत्यर्थः । यथा ह वै पशोः पृष्ठवंशः शालाया मध्यवंश इव । जाघनीप्रभृति आमु- खादेकस्मिन् पार्श्वे व्यतिरेकेण उदग्दक्षिणादिपार्श्वभूतो नैव वर्त्तते । उभाभ्यामेव- काराभ्यां कदाचिदपि न वर्त्तत इति सूचयति । एवमिति । तथेत्यर्थः । तासामुपधानं मध्यदेशवर्त्ति-अस्थितुल्यतामापाद्योक्तं भवति । पुच्छापरान्तमध्यादारभ्य आशि- रोऽग्रमध्यादुन्नीयते । अग्नेः पशुधर्मविधानार्थं ब्राह्मणान्तरमुक्तम् । तदुदाहृतम् । तत्र अस्थिसाहश्यमुक्तम् ॥ १३ ॥ अथापि ब्राह्मणं भवति प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङा- थर्वणस्तस्यैष्टका अस्थानीतीति ॥ १४ ॥