बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 99, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ६६ रन्ध्रान्तः स्वयमातृष्णाकत्वेनोपधाने द्वितीयप्रस्तारादावेवं मध्यरन्ध्रान्तं पिधानोपायेनोपधाने सिध्यतीति द्रष्टव्यम्। ननु तृतीयस्याः स्वयमा- तृष्णायाः सर्वप्रस्तारसमाप्तावुपधेयत्वेनेष्टकाभिरपिधानप्रसक्त्यभावात् कथं तन्निषेध इत्यत आह—स्वयं चिताविति। इष्टकायां स्वयं चित्ताववस्थायां ताभिः स्वयमातृणान् नापिदध्यादित्यर्थः। एवञ्च स्वयंचितावित्युक्त्या प्रथमद्वितीयस्वयमातृष्णापिधायकत्वमेव प्रसक्तमिष्टकानां निषिध्यत इति नानुपपत्तिरिति त(ा)न्मुखेन प्रथमद्वितीयस्वयमातृणानपिधायकत्वमेवेष्टका- धर्मे विधीयत इति भावः ॥ २५ ॥ न स्वयमिति । तृतीयस्याः स्वयमातृष्णायाः प्रस्तारसमाप्तावुपधेयत्वात् पूर्व- योरयं धर्मः स्वयंचितौ स्वयमातृणावत्यां चिताविष्टकया नापिदध्यात् । यथा सन्धौ भवति तथेष्टकयोर्मध्ये इत्यर्थः ॥ २५ ॥ ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत् ॥ २६ ॥ असिगार्हपत्यधिष्ण्येष्टकानां साधारण्येन ऊर्ध्वप्रमाणमाह—ऊर्ध्वेति । इष्टकानाम् ऊर्ध्वप्रमाणं जानोः पञ्चमेन कारयेत् ॥ २६ ॥ ऊर्ध्वमिति । इष्टकानां गार्हपत्यधिष्ण्येष्टकाभिः सर्वासामपृथग्विधानाद् इष्टकाग्रहणाच्च ॥ २६ ॥ अर्धेन नाकसदाम् पञ्चचोडानाञ्च ॥ २७ ॥ अर्धेनेति । पूर्वोक्तोर्ध्वपरिमाणार्धेन नाकसदाम् पञ्च चोडानां करण- मित्यर्थः ॥ २७ ॥ अर्धेनेति । पञ्चमार्धेन ॥ २७ ॥ यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेत् पुरीषस्या- नियतपरिमाणत्वात् ॥ २८ ॥ यच्छोषपाकाभ्यामिति । यदि इष्टकारूपद्रव्यं शोषपाकाभ्यां प्रति- ह्रसेत् न्यूनं भवेत्तदिष्टकारूपं पुरीषेण यावदाम्नातप्रमाणं पूरयेदित्यर्थः । पुरीषस्यानियतपरिमाणत्वात् ॥ २८ ॥ यच्छोषेति । यच्छोषपाकाभ्याम् उपलक्षणत्वात् कालेन वा प्रतिह्रसेत उक्त- प्रमाणाद्धीयते पुरीषेण तत्सम्पूरयेत् । पुरीषस्यानियतपरिमाणत्वात् । परिमाण-