भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 428, कुल 639 में से
संदर्भ में पढ़ें४१० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ १ पा. ३ सू. ३०
खविषयौ च रागद्वेषौ भवतः, न विलक्षणविषयावित्यतो धर्माधर्मफलभूतोत्तरा सृष्टिनिष्पद्यमाना पूर्वसृष्टिसदृइयेव निष्पद्यते । स्मृतिश्च भवति - तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ (म.भा. शां. १२।८५) हिंस्त्राऽहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥' (म.भा. शां. २५।७) इति ।
प्रलीयमानमपि चेदं जगच्छक्त्यवशेषमेव प्रलीयते । शक्तिमूलमेव च प्रभवति; इतरथाऽऽकस्मिकत्वप्रसङ्गात् । न चानेकाकाराः शक्तयः शक्याः कल्पयितुम् । ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूर्यादलोकप्रवाहाणां, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणां, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रि- यविषयसंबन्धनियतत्ववत्प्रत्येतव्यम् । न हीन्द्रियविषयसंबन्धादेर्व्यवहारस्य प्रतिसर्ग- मन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम् । अतश्च सर्वकल्पानां तुल्यव्यवहार- त्वात्कल्पान्तरव्यवहारानुसंधानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्ग विशेषाः प्रादुर्भवन्ति । समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः । समाननामरूपतां च श्रुतिस्मृती दर्शयतः - 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः' (ऋ० सं० १०।१९०।३) इति । यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमः- प्रभृति जगत्क्लृप्तं तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थः । तथा 'अग्निर्वा अकामयत । अन्नादो देवानां स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्' (तै० ब्रा० ३।१।४।१) इति नक्षत्रेष्टिविधौ योऽग्निर्भिरवपद्यस्मै वाऽग्नय निरवपत्तयोः समाननामरूपतां दर्शयतीत्येवंजातीयका श्रुतिरिहोदाहर्तव्या ।
भामती घटश्च तन्तुभ्यो जायते । तथा सति वस्तुसामर्थ्य नियमाभावात् सर्वं सर्वस्माद्द्भवेदिति पिपासुरपि दहन- माहृत्य पिपासामुपशमयेत् , शीतातों वा तोयमाहृत्य शीतातिमिति । तेन सृष्टयन्तरेऽपि ब्रह्महत्यादिरन- र्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् । एवं च य एव वेदा अस्मिन् कल्पे त एव कल्पान्तरे त एव चैषामर्थास्त एव च वर्णाश्रमाः । दृष्टसाधर्म्यसम्भवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् । आगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्यास्तद्बाधकोपोऽन्यथा भवेत् ॥
भामती-व्याख्या तन्तुओं से घट उत्पन्न होता है ? यदि हो जाय, तब वस्तुओं के सामर्थ्य का कोई नियम नहीं रह जाता, फिर तो अग्नि से प्यास और हिम से ठिठुरन दूर होनी चाहिए। फलतः अन्य सृष्टियों के समान ही इस सृष्टि में भी ब्रह्महत्यादि कर्म अनर्थ के एवं अश्वमेधादि याग अर्थ के ही जनक होते हैं-यह सिद्ध हो जाता है। जो वेद कल्पान्तर में प्रचलित था, वही इस कल्प में भी है, वे ही उनके अर्थ और वे ही वर्णाश्रम हैं। दृष्ट पदार्थों की समानधर्मता जब अदृष्ट पदार्थों में बाधित नहीं, तब उनके वैधर्म्य की कल्पना अनुमान और आगमादि प्रमाणों से बाधित हो जाती है। आगमाश्च भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्याः तद्बाधकापोऽन्यथा भवेत् ॥