भोज प्रबन्ध (राजा भोज, धारा नगरी एवं विद्वन्मण्डल इतिहास)
Bhoja Prabandha with Hindi Commentary
बल्लाल सेन / पं. जगदीशलाल शास्त्री द्वारा
पृष्ठ 14, कुल 190 में से
संदर्भ में पढ़ें६ भोजप्रबन्धः किञ्च -- शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः । बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥ ८ ॥ असू (१) यया हतेनैव पूर्वोपायोद्यमैरपि । कर्तॄणां गृह्यते सम्पत्सुहृद्भिर्मन्त्रिभिस्तथा ॥ ६ ॥ किंतु शरीर की चिंता न करनेवाले, चतुर, अध्यवसायी और बुद्धि से कार्य करनेवाले मनुष्य के लिए कुछ भी कर डालना कठिन नहीं है । गुणों में दोष का आविष्कार करने की प्रवृत्ति के कारण पहिले से ही युक्ति और उद्योग पूर्वक करनेवाले पुरुषों का कार्य मित्रों और मंत्रियों द्वारा मान्य ही होता है । तत्रोद्यमे किं दुःसाध्यम् । अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे । परापवादभीरूणां दूरतो यान्ति सम्पदः ॥ १० ॥ सो उद्योग करने पर कठिन क्या है ? अत्यंत चतुर किंतु पग-पग पर शंका करनेवाले और दूसरों के द्वारा की गई निंदा से डरनेवाले मनुष्यों की संपदाएँ दूर से ही चली जाती हैं । किञ्च -- आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति सम्पदः ॥ ११ ॥ अवमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः । स्वार्थं समुद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १२ ॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः। एतदेवातिपाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥ १३ ॥ जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत् । अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ १४ ॥ प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः । हस्तन्यस्तातपत्रस्य वारिधारा इवारयः ॥ १५ ॥ अफलानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः ॥ १६ ॥ ( १ ) असूया-गुणेषु दोषाविष्करणम् ।