बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 100, कुल 152 में से
संदर्भ में पढ़ें१०२ बीजगणिते समशोधने कृते पक्षौ यावत्तावताऽपवर्थ्य रूपं प्रक्षिप्य प्रथमप- क्षमूलम् या २ रू १ । परपक्षस्यास्य काव १२ रू १ । वर्गप्रकृत्या मूले क २ ज्ये ७ वा क २८ ज्ये ९७ । कनिष्ठं कालकमानम् । ज्येष्ठमस्य या २ रू १ समं कृत्वा लब्धं यावत्तावन्मानम् ३ वा ४८ । स्वस्वमा- नेनोत्थापने कृते जातौ राशी १, ५ वा २०, ७६ इत्यादि । अथान्यत् सूत्रं सार्धवृत्तम् । (१) द्वितीयपक्षे सति सम्भवे तु कृत्याऽपवर्त्याथ पदे प्रसाध्ये । ज्येष्ठं कनिष्ठेन तदा निहन्याच्चेद्वर्गवर्गेण कृतोऽपवर्त्तः ॥ ६ ॥ कनिष्ठवर्गेण तदा निहन्याज्ज्येष्ठं ततः पूर्ववदेव शेषम् । स्पष्टार्थम् । (१) वि०-कल्प्येते समौ पक्षौ काव १ यावव. ६ । याव. ६ । अत्र प्रथमपक्षस्य मूलं का १ द्वितीयपक्षस्यास्य यावव. ६ । याव. ६ । मूलेन सम- मिति । तत्र द्वितीयपक्षस्य मूलं च का = √यावव. ६ । याव. ६ । = या √याव. ६ । ६ । अत इदं याव. ६ । ६ । मूलदं ततो वर्गप्रकृतिविषयो यथा को वर्गः ६, गुणः ६, युतो मूलद इति ह्रस्वं यावत्तावन्मानं ज्येष्ठं यस्य याव. ६ । ६ । मूलेन सममिति पूर्वपक्षस्य मूलं का = या √याव. ६ । ६ । = ह × ज्ये । एवं यदि का = √यावव × याव. ६ । याव. ६ । = याव √याव. ६ । ६ । अतस्तदा का = हव × ज्ये । एवं यदा का = √६. या⁶ + ६. या⁴ = या³ √६. या² + ६ = ह³ × ज्ये एवं बहुधा बुद्धिमाद्भिरूह्यमिति सर्वमुपपन्नम् ।