बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 108, कुल 152 में से
संदर्भ में पढ़ें११० बीजगणिते, रूपयुतः द्वितीयो राशी रूपेणोनो द्वितीयोदाहरणे कार्यः। एवं कृत्वा तौ तथा राशिवर्गौ कल्पितौ यथाऽऽलापद्वयं घटते किन्तु प्रथमस्य मूलं गृहीत्वा द्वितीयस्य वर्गप्रकृत्या मूलमित्यादि पूर्वो- क्तमेव। एवमनेकधा। अथ कस्याप्युदाहरणम्। यत् स्यात् साप्तवधार्धतो घनपदं यद्वर्गयोगात् पदं यद्योगान्तरयोर्द्विकाभ्यधिकयोर्वर्गान्तरात् साष्टकात्। यच्चैतत्पदपञ्चकं तु मिलितं स्याद्वर्गमूलप्रदं तौ राशी कथयाशु निश्चलमते पङ्काष्टकाभ्यां विना ॥ ५॥ साप्तवधस्यार्द्धाद्धनपदं ग्राह्यम्। अत्रालापानां बहुत्वेऽसकृत् क्रिया कार्या सा न निर्वह्रतयतो बुद्धिमता तथा राशी कल्प्यौ यथैकेनैव वर्णेन सर्वेऽप्यालापा घटन्ते। तथा कल्पितौ राशी याव १ रू १, या २। अनयोः साप्तवधार्धतो घनपदम् या १। वर्गयोगात् पदम् याव १ रू १। द्विकयोगपदम् या १ रू १। द्विकान्तरपदम् या १ रू १̇। साष्टवर्गान्तरपदम् याव १ रू ३̇। एषां योगः याव २ या ३ रू २̇। अयं वर्ग इति कालकवर्गसमं कृत्वा पक्षावष्टभिः संगुण्य पञ्चविंशतिरूपाणि प्रक्षिप्य प्रथमपक्षस्य मूलम् या ४ रू ३। परपक्षस्यास्य काव ८ रू २५ वर्गप्रकृत्या मूले क ५ ज्ये १५ वा क ३० ज्ये ८५ वा क १७१ ज्ये ४९५। ज्येष्ठं पूर्वपदेन समं कृत्वा लब्धं यावत्तावन्मानम् ३, वा ४१/२, वा १२३। अनेनोत्थापितौ राशी ८, ६ वा १६७७/४, ४१ वा १५१२८, २४६। एवमनेकधा। अथवा यावत्तावद्वर्गो यावत्तावद्वयेन युत एको राशिः याव १ या २। यावत्तावद्वयं रूपद्वययुतमन्यराशिः या २ रू २। अथवा यावत्तावद्वर्गो यावत्तावद्वयोने एको राशिः याव १ या २̇। यावत्तावद्वयं रूपद्वयोनमन्यराशिः या २ रू २̇। अथवा यावत्ता- वद्वर्गो यावत्तावच्चतुष्टयं रूपत्रययुतं चैको राशिः याव १ या ४ रू ३। यावत्तावद्वयं रूपचतुष्टयं चान्यः या २ रू ४। एवं सहस्रधा गूढा मूढानां कल्पना यतः। कृपया कल्पनोपायस्तेषामेव च कथ्यते॥