बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 2, कुल 152 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text in Unicode Devanagari:
श्री १०८ मते बलवते हनुमते नुतिः । उपोद्घातः । एकद्वित्र्याद्याः संख्या । संख्यामधिकृत्य शास्त्रं सांख्यं गणितैः- मन्यत् प्रकृतिप्रधानं दर्शनमिति मनसि निधाय तदनुकूलमेव प्रत्यू- हव्यूहविनाशकं मङ्गलमालिख्य ज्योतिषसिद्धान्ताभिज्ञो विबुधवन्यो भास्कर इव श्रीमान् भास्कराचार्यो ग्रहगणितगोलरचनानन्तरमेव तदुपकरणभूतं व्यक्ताव्यक्तगणितोल्लसितं सिद्धान्तशिरोमणेः स्वर्ण- मयिकं सोपानमिव ग्रन्थद्वयं निर्ममौ । अङ्क्यन्तेऽङ्काभिष्टानि । एकमारभ्य नवपर्यन्ता एवाङ्काः । अनन्तरमेकोपरि शून्ये स्थिते "दश" । एवमेकादशतोऽनन्तपर्यन्तम् । "अङ्कानां वामतो गतिः" इत्युभयसंशयनिवृत्त्यर्थं प्रसारिताङ्गुलिके दक्षकरे कनीनिकासंकोचे एकं कनीनिकाना