बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 51, कुल 152 में से
संदर्भ में पढ़ेंएकवर्णसमीकरणम् । ४९ (१) अथ वा प्रथमप्रमाणफलेन द्वितीयप्रमाणफले विभक्ते यल्ल- भ्यते तद्गुणगुणितेन द्वितीयमूलधनेन तुल्यमेव प्रथममूलधनं स्यात् कथमन्यथा समे काले समं फलं स्यात् । अतो द्वितीयस्यायं गुणः २ । एकगुणं द्वितीयमूलधनमेकोनगुणगुणितं फलवर्गे वर्त्ततेऽत एकोन गुणेन इष्टकल्पितफलान्तरस्य वर्गे भक्ते द्वितीयमूलधनं स्यात् । तत् फलवर्गयुतं प्रथममूलधनं स्यात् । अत्र कल्पितफलवर्गः ४ । अतः प्रथमद्वितीयमूलधने ८, ४ । फलम् २ । यदि शतस्य पञ्च फलान्तरं तदाऽष्टानां किमिति लब्धमेकमासेऽष्टानां फलम् २/५ । यद्यनेनैको मास- स्तदा द्विकेन किमिति लब्धा मासाः ५ । उदाहरणम् । एककशताद्दत्तधनात् फलस्य वर्गं विशोध्य परिशिष्टम् । पञ्चकशतेन दत्तं तुल्यः कालः फलं च तयोः ॥ ८ ॥ अत्र गुणकः ५ । एकोनेगुणेन ४ इष्टफलस्यास्य वर्गे १६ भक्ते जातं द्वितीयधनम् ४ । इदं फलवर्गयुतं जातं प्रथमधनम् २० अतोऽनुपातद्वयेन कालः २० । एवं स्वबुद्ध्यैवेदं सिद्ध्यति