बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 59, कुल 152 में से
संदर्भ में पढ़ें५८ बीजगणिते कोटियुतावपि । अथ कोटिकर्णान्तरे भुजे च ज्ञाते उदाहरणम् । चक्रक्रोञ्चाकुलितसलिले क्वापि दृष्टं तडागे तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् । मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन् मग्नं गणक कथय क्षिप्रमम्भःप्रमाणम् ॥ २३ ॥ अत्र नलप्रमाणं जलगाम्भीर्यमिति तत्प्रमाणम् = या १ । इयं कोटिः। सा कलिकामा॑नयुता जातः कर्णः = या २ रू १ / २ । हस्तद्वयं भुजः = रू २। रू १ / २ अत्रापि दोःकोटिवर्गयोगं कर्ण- रू २ वर्गसमं कृत्वा लब्धं जलगाम्भीर्यम् = १५/४। या १ कर्णमानम् = १७/४ । या २ रू १ / २ उदाहरणम् । वृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वापीं कपिः कोऽप्यगा- दुत्तीर्याथ परो द्रुतं श्रुतिपथात् प्रोड्डीय किञ्चिद्द्रुमात् । जातैवं समता तयोर्यदि गतावुड्डीनमानं कियद्- विद्वांश्चेत् सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाऽऽचक्ष्व मे ॥ २४ ॥ अत्र समगतिः = २०० । उड्डीनमानम् = या १ । एतद्युतो- च्छ्रायः कोटिः । यावत्तावदूना समगतिः कर्णः । तद्वाप्यन्तरं भुजः। न्यासः भुजकोटिवर्गैक्यं कर्णवर्ग या १̇ रू २०० या १ समं कृत्वा लब्धमुड्डीनमान- रू १०० म् = ५० । रू २०० उदाहरणम् । पञ्चदशदशकरोच्चद्रुद्वयोश्शतमध्यभूमिकयोः । इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व ॥ २५ ॥