भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 59, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 59

५८ बीजगणिते कोटियुतावपि । अथ कोटिकर्णान्तरे भुजे च ज्ञाते उदाहरणम् । चक्रक्रोञ्चाकुलितसलिले क्वापि दृष्टं तडागे तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् । मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन् मग्नं गणक कथय क्षिप्रमम्भःप्रमाणम् ॥ २३ ॥ अत्र नलप्रमाणं जलगाम्भीर्यमिति तत्प्रमाणम् = या १ । इयं कोटिः। सा कलिकामा॑नयुता जातः कर्णः = या २ रू १ / २ । हस्तद्वयं भुजः = रू २। रू १ / २ अत्रापि दोःकोटिवर्गयोगं कर्ण- रू २ वर्गसमं कृत्वा लब्धं जलगाम्भीर्यम् = १५/४। या १ कर्णमानम् = १७/४ । या २ रू १ / २ उदाहरणम् । वृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वापीं कपिः कोऽप्यगा- दुत्तीर्याथ परो द्रुतं श्रुतिपथात् प्रोड्डीय किञ्चिद्द्रुमात् । जातैवं समता तयोर्यदि गतावुड्डीनमानं कियद्- विद्वांश्चेत् सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाऽऽचक्ष्व मे ॥ २४ ॥ अत्र समगतिः = २०० । उड्डीनमानम् = या १ । एतद्युतो- च्छ्रायः कोटिः । यावत्तावदूना समगतिः कर्णः । तद्वाप्यन्तरं भुजः। न्यासः भुजकोटिवर्गैक्यं कर्णवर्ग या १̇ रू २०० या १ समं कृत्वा लब्धमुड्डीनमान- रू १०० म् = ५० । रू २०० उदाहरणम् । पञ्चदशदशकरोच्चद्रुद्वयोश्शतमध्यभूमिकयोः । इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व ॥ २५ ॥