भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 69, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 69

७८ बीजगणिते एवं मध्ये चतुर्भुजमुत्पन्नमथ कोटिभुजान्तरसमं भुजमानम् = ५ । अस्य फलम् = २५ । भुजकोटिग्धो द्विगुणस्त्र्यस्राणां चतुर्णां फलम् = ६०० । एतद्योगः सर्वं बृहत्क्षेत्रफलम् = ६२५ । एतद्यावत्तावद्वर्गसमं कृत्वा लब्धं कर्ण मानम् = २५ । यत्र व्यक्तस्य न पदं तत्र करणीगतः कर्णः । एतत्करणसूत्रे वृत्तम् । दो.कोट्यन्तरवर्गेण द्विघ्नो घातः समन्वितः । वर्गयोगसमः स स्याद्द्वयोरव्यक्तयोर्यथा ॥ १४ ॥ अतो लाघवार्थं (१)दोःकोटिवर्गयोगस्य पदं कर्ण इत्युपपन्नम्। तत्र तान्येव क्षेत्रस्य खण्डान्यन्यथा विन्यस्य दर्शनम् । (१) वि० रा०-दो कोट्यन्तरवर्गेण युतश्च द्विघ्नभुजकोटिघातस्तस्यैक्यस्य श्रुतिरिति ।

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक) · पृष्ठ 69, कुल 152 में से · BharatKosha