बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
DevanagariHindipublished152 पृष्ठ
पृष्ठ 71, कुल 152 में से
संदर्भ में पढ़ेंपृष्ठ 71
७२ बीजगणिते अस्मात् पञ्चवर्गं २५ विशोध्य शेषस्य २४ दर्शनम् । इहान्तरं द्वौ २। योगो द्वादश १२। योगान्तरघातसम-२४ कोष्ठ- कानि वर्तन्ते । तद्दर्शनम् । इत्युपपन्नं "वर्गान्तरं योगान्तरघातसमम्" इति । अत इदं वर्गा- न्तरं १४४ कल्पितकोटिकर्णान्तरेण २ भक्तं जातम् = ७२ । अयं योगो द्विधाऽन्तरेणोनयुतोऽर्धित इति संक्रमणेन जातौ कोटिकर्णौ ३५, ३७। एवमेकेन भुजकोटिकर्णाः ७, २४, २५। त्रिभिः १२, १३५/६, १५३/६ । चतुर्भिर्वा २८, ९६, १०० । एवमनेकधा । एवं सर्वत्र । अस्य सूत्रं वृत्तम् । वर्गयोगस्य यद्राश्योर्युतिवर्गस्य चान्तरम् । द्विघ्नघातसमं स्यादुक्तयोरव्यक्तयोर्यथा ॥ १६ ॥ अत्र राशी ३, ५। अनयोर्युतिवर्गः=६४ । तयोर्वर्ग